५३
अथ विंशतितमं क्षेत्रम् ॥ २० ॥
यत्राङ्कत्रयमेकनिष्पत्तावस्ति तत्र निष्पत्तौ चतुर्थाङ्कोत्पादनमिष्टमस्ति यदि तदुत्पादनं संभवति ।
यथा अबजा अङ्काः कल्पिताः । अजौ भिन्नाङ्कौ न भवतः । तस्मात् बं जेन गुणितं दं जातम् । अः दं हतुल्यं निःशेषं करोतीति कल्पितम् । तस्मात् हः चतुर्थाङ्को भविष्यति । यतः अहघातो बजघाततुल्योऽस्ति । अबनिष्पत्तिर्जहनिष्पत्तितुल्या भविष्यति ।
यदि अः दं निःशेषं न करिष्यति तदा चतुर्थाङ्को न भविष्यति । यदि भविष्यति तदा हः कल्पितः । तस्मात् अहघातो दतुल्यो भविष्यति । तस्मात् अः दं निःशेषं करिष्यतीत्यशुद्धम् । अस्मदिष्टमेव समीचीनम् ॥
अथैकविंशतितमं क्षेत्रम् ॥ २१ ॥
यावन्तः समाङ्कास्तेषां योगः समाङ्को भवति ।
यथा अब बजं जदं समाङ्का कल्पिताः । एतेषां योगः अदोऽपि समाङ्को भविष्यति । कुतः । प्रत्येकस्य समाङ्कस्यार्ध्दं भवति । अर्द्धाङ्कानां योगो योगार्द्धं भवति । तस्मात् अदस्यार्ध्दं जातम् । इदमेवास्माकमिष्टम् ॥
अथ द्वाविंशतितमं क्षेत्रम् ॥ २२ ॥
समतुल्यविषमाङ्कयोगः समो भवति ।
यथा अब बजं जदं दहं विषमाङ्काः कल्पिताः । एतेषां योगः
समाङ्को भविष्यति । कुतः । यदि प्रत्येकविषमाङ्कात् रूपं पृथक् क्रियते तदा समाङ्कः शेषो भविष्यति । रूपाणां योग एकः समाङ्को भवि-