पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ विंशतितमं क्षेत्रम् || २० || यत्राङ्कत्रयमेकनिष्पत्तावस्ति तत्र निष्पत्तौ चतुर्थाङ्कोला- दनमिष्टमस्ति यदि तदुत्पादनं संभवति । यथा अबजा अङ्काः कल्पिताः । अजौ भिन्नाको न भवतः । तस्मात् बं जेन गुणितं दं जातम् । अः दं हृतुल्यं निःशेषं करोतीति कल्पितम् । तस्मात् हः चतुर्थाको भविष्यति । यतः अहघातो बजवाततुल्योऽस्ति । अवनिष्पत्तिर्जहनिष्पत्तितुल्या भविष्यति । म. १२. ज, १८. ह, २७. द्, २१६. अ, २०. ब, ३०. ज, ४५ ह यदि अः दं निःशेषं न करिष्यति तदा चतुर्थाको न भविष्यति । यदि भविष्यति तदा हः कल्पितः । तस्मात् अहघातो दतुल्यो भवि- ६,१३५०. ष्यति । तस्मात् अ’ दं निःशेषं करिष्यतीत्यशुद्धम् । असदिष्टमेव समीचीनम् ॥ अथैकविंशतितमं क्षेत्रम् ॥ २१ ॥ यावन्तः समाङ्कास्तेषां योगः समाङ्को भवति । यथा अब बर्ज जदं समायाः कल्पिताः । एतेषां योगः अदोऽपि समाको भविष्यति । कुतः । प्रत्येकस्य समाङ्क- अ... ब......ज.. द स्या भवति । अङ्कानां योगो योगाई भवति । तस्मात् अदस्याद्वै जातम् । इदमेवास्माकमिष्टम् ॥ अथ द्वाविंशतितमं क्षेत्रम् ॥ २२ ॥ समतुल्यविषमाङ्कयोगः समो भवति । यथा अब बर्ज जदं दहं विषमाङ्काः कल्पिताः । एतेषां योगः समाको भविष्यति । कुतः । यदि अ... ब..... ज..........इ प्रत्येक विषमाङ्कात् रूपं पृथक् क्रि- यते तदा समाङ्कः शेषो भविष्यति । रूपाणां योग एकः समाको भवि-