५१
तस्मात् हं निःशेष न करिष्यति । झं निःशेषं करिष्यति । एवं जदाबपि। तस्मात् बजदा झं निःशेषं करिष्यन्ति । झं आत् न्यूनमस्तीत्यशुद्धम्। अस्मदिष्टं समीचीनम्॥
अथ षोडशं क्षेत्रम् ॥ १६ ॥
त्रयो लघ्वङ्का यद्येकरूपनिष्पत्तौ भवन्ति तदा तेषां मध्ये
द्व१[१]योर्द्वयोर्योगस्तृतीयाङ्कात् भिन्नो भविष्यति ।
यथा अबजा लघ्वङ्का एकनिष्पत्तौ कल्पिताः । पुनर्दहहझौ लघ्वङ्कौ अस्यां निष्पत्तौ गृहीतौ । एतौ भिन्नौ स्तः । दहवर्गश्च अमस्ति ।हझवर्गो जमस्ति । दहहझघातो बमस्ति । प्रत्येकं दहदझौ हझाद्भिनौ स्तः। तस्मात् दहदझघातः अबयोगतुल्यो हझाद्भिन्नो भविष्यति । तस्य वर्गादपि भिन्नो भविष्यति । एवं बजयोगः आद्भिन्नोऽस्ति।पुनर्दहहझौ दझाद्भिन्नौ स्तः दहहझघातश्चदझाद्भिन्नो भविष्यति । तद्वर्गादपि भिन्नो भविष्यति। तस्य वर्गश्च द्विगुणदहहझघातदहवर्गहझवर्गयोगतुल्यश्चास्ति। तस्मात् दहहझघातोदहहझघातदहवर्गझहवर्गयोगाद्भिन्नो भविष्यति । तस्मात् बतुल्यो दहहझघातः अजयोगतुल्यात् दहहझवर्गयोगाद्भिन्नो भविष्यति । इदमेवास्माकमिष्टम् ॥
अथ सप्तदशं क्षेत्रम् ॥ १७ ॥
रूपाद् व्यतिरिक्तौ यौ भिन्नाङ्कौ भवतस्तयोस्तृतीयाङ्कस्तन्निष्पत्तौ न भवति।
यथा अबौ भिन्नाङ्कौ कल्पितौ । अनयोर्निष्पत्तौ तृतीयाङ्को न भवति । यदि भवति तदा जस्तृतीयाङ्को तस्यामेव निष्पत्तौ कल्पितः। तस्मात् अबनिष्पत्तिर्बजनिष्पत्तितुल्या भविष्यति । अबौ अस्यां निष्पत्तौ लघ्वङ्कौ स्तः ।
- ↑ १ K. has one द्वयोः.