पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यदि वं घनो भवति तदा बजनिष्पत्तिः अवनिष्पत्तिसमानास्ति । तस्मात् अमपि घनो भविष्यति । इदमशुद्धम् । एवमग्रेऽपि । इदमे- चास्मदिष्टम् || अथैकादशं क्षेत्रम् ॥ ११ ॥ रूपादयोऽङ्का यछेकनिष्पत्तौ भवन्ति तदा तेषु लध्वङ्ग- स्तदङ्कतमाङ्कतुल्यं महदङ्कं निःशेषं करिष्यति । यथा अबजदहा एकनिष्पत्तौ कल्पिताः । जः ई निःशेष करो- तीति कल्पितम् । तस्मात् जः है बतुल्यं निःशेषं करिष्यति । कुतः । जदहात्रयोङ्का १. अ, ३. व. ९ जुं, २७ एकनिष्पत्तौ तथा सन्ति यथा रूपं अं बंच एकनिष्पत्तौ सन्ति । रूपं बं निःशेषं तथा करोति यथा जः हं निःशेष करोति । तस्मात् जः हं बतुल्यं निःशेषं करिष्यति । एतदेवेष्टम् || अथ द्वादशं क्षेत्रम् ॥ १२ ॥ रूपादयोऽङ्का एकनिष्पत्तौ भवन्ति तत्र यदि प्रथमाङ्को- अन्त्य निःशेषं करोति तदा स एवाको रूपाद्वितीया निःशेषं करिष्यति । यथा अबजदा एकरूपनिष्पत्तौ कल्पिताः । है प्रथमाङ्कः क- ल्पितः । अयं दं निःशेषं करोति । तस्मात् १. अ, ४. ब, १६. है अमपि निःशेषं करिष्यति । यदि हं अं निःशेषं न करोति तदा ६, २. त, ८. द, ३२० अहाँ भिन्नाको भविष्यतः । अस्य नि- झ, १२८. ष्पत्तौ च लध्यकौ भविष्यतः | पुनर्हः दं झतुल्यं निःशेषं करोतीति कल्पितम् । तस्मात् ह्झघातो दं भविष्यति । अजधातोऽपि दमस्ति । तस्मात् हअनिष्पत्तिर्जझनिष्पत्तितुल्या भविष्यति । हेअं जर्झ क्रमेण तुल्यं निःशेषं करिष्येति । पुनर्हे जं वतुल्यं निःशेषं करोतीति क १ हऔ जझौ K. २ करिष्यतः K.