यथा अः घनः कल्पितः । अस्य वर्गो बः कल्पितः । जः भुज कल्पितः । भुजवर्गो दः कल्पितः । रूपअप्रमाणयोर्मध्ये जदौ तथा पतितौ यथैते चत्वारोऽङ्का
एकनिष्पत्तौ पतिष्यन्ति । रूपअप्रमाणनिष्पत्तिः
अबनिष्पत्तितुल्यास्ति । तस्मात् अबयोर्मध्ये तथा
बकौ पतिष्यतो यथैते चत्वार एकनिष्पत्तौ भविष्यन्ति । अं घनोऽस्ति
तस्मात् बमपि घनो भविष्यति । इदमेवास्माकमिष्टम् ॥
अथ चतुर्थं क्षेत्रम् ॥ ४ ॥
घनयोर्घातो घनो भवति ।
यथा अबौ घनौ कल्पितौ । अनयोर्घातो जः कल्पितः । असावपि घनो भविष्यति । कुतः । अवर्गो दः कृतः ।अयं घनो भविष्यति । अबघनयोर्निष्पत्तिर्दजनिष्पत्तिसमाना भविष्यति । दः घनोऽस्ति । तस्मात् जोऽपि घनो भविष्यति । इत्यस्माकमिष्टम् ॥
अथ पञ्चमं क्षेत्रम् ॥ ५॥
घनः केनाप्यङ्केन गुणितः सन् घनो भवति तदाऽसावङ्कोऽपि घनो भवति ।
यथा अः घनो बगुणितो जं घनो जातः । तस्मात् बः घनो
भविष्यति ।
अस्योपपत्तिः ।
अप्रमाणस्य वर्गो दं घनो भविष्यति । अबयोर्निष्पत्तिर्दजघनयोर्निष्पत्तितुल्या भविष्यति । अप्रमाणं घनोऽस्ति । तस्मात् बः घनो भविष्यति । इदमेवास्माकमिष्टम् ॥
अनेनेदं निश्चितम् ।
घनोऽघनगुणोऽघन एव भवति । यदि घनः केनाप्यतेन गुणोऽघनो भवति तदा सोऽप्यङ्कोऽघनो भविष्यति ॥