पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ नवमाध्यायः मारभ्यते ॥ ९ ॥ तत्राष्टत्रिंशत् क्षेत्राणि सन्ति ॥ ३८ ॥ तत्र ग्रंथमं क्षेत्रम् ॥ १ ॥ द्वयोः सजातीयघातफलाइयोर्घातो वर्गो भवति । यथा अबो सजातीयघातफलाकौ कल्पितौ । अनघातो जः क- ल्पितः । असौ वर्गों जातः । अस्योपपत्तिः । अ, ६. व ५४ द, ३६. जं, ३२४. यदि अवर्गो दें कल्पितस्तदा अवनिष्पत्ति- र्दजनिष्पत्तितुल्या भविष्यति । तत्र प्रत्येकाङ्कयोर्मध्ये एकाङ्कस्तथा पतिष्यति यथा त्रयोsका एकनिष्पत्तौ पतिष्यन्ति । दं वर्गोऽस्ति । तस्मात् जं वर्गोऽपि भविष्यति । इदमेवेष्टम् || अथ द्वितीय क्षेत्रम् ॥ २ ॥ ययोरङ्कयोर्घातो वर्गो भवति तावको सजातीयघातफ- ला भविष्यतः । यथा अवयोर्घातो जवर्गः कल्पितः । एतौ सजातीयधातफलाको भविष्यतः । अस्योपपत्तिः । अवर्गो दः कल्पितः । दजवर्गयोर्निष्पत्तिः अबनिष्पत्तितुल्यास्ति । एतौ सजातीयघातफलाङ्कौ भविष्यतः || अनेन क्षेत्रेणेदं निश्चितम् । वर्गो वर्गगुणितो वर्गों भवति । अवर्गगुणितो वर्गोडवर्गो भवति । येन गुणितो वर्गों वर्गो भवति स चाकोsपि वर्ग एव भविष्यति । यदि वर्गों न भवति तदा सोऽप्यकोडवर्ग एवं ॥ अथ तृतीयं क्षेत्रम् ॥ ३ ॥ घनवर्गो घनो भवति । अ, ४.