अथ षड्विंशतितमं क्षेत्रम् ॥ २६ ॥
यौ घातफलाङ्कौ सजातीयौ भवतस्तौ द्वयोर्वर्गयोर्निष्पत्तौ भवतः ।
यथा अबौ घातफलाङ्कौ सजातीयौ कल्पितौ ।एतौ द्वयोर्वर्गयोनिष्पत्तौ भविष्यतः ।
अस्योपपत्तिः ।
एकाङ्को जसंज्ञकः अबयोर्मध्ये पतिष्यति । एते
त्रयोऽप्यङ्का एकरूपनिष्पत्तौ भविष्यन्ति। यदि दहझास्त्रयो लघ्वङ्का
अजबनिष्पत्तौ गृह्यन्ते तदा अबनिष्पत्तिर्दझवर्गयोनिष्पत्तिसमाना
भविष्यति । इदमेवास्माकमिष्टम् ॥
अथ सप्तविंशतितमं क्षेत्रम् ॥ २७ ॥
यौ घनफलाङ्कौ सजातीयौ भवतस्तौ द्वयोर्घनयोर्निष्पत्तौ भविष्यतः ।
अस्योपपत्तिः ।
जदौ अबयोर्मध्ये पतितौ । एते चत्वार एकनिष्पत्तौ भविष्यन्ति ।
पुनर्यदि हझवताश्चत्वारोऽङ्का
'अजदबानां निष्पत्तौ लघवो गृह्यन्ते तदा अबनिष्पत्तिर्हतघनयोर्निष्पत्त्या समाना भविष्यति । इदमेवास्माकमिष्टम् ॥ २७ ॥
श्रीमद्राजाधिराजप्रभुवरजयसिंहस्य तुष्यै द्विजेन्द्रः
श्रीमत्सग्राड् जगन्नाथ इति समभिधारूढितेन प्रणीते ।
ग्रन्थेऽस्मिन्नामि रेखागणित इति सुकोणावचोधप्रदात-
र्यध्यायोऽध्येतृमोहापह इह विरतिं चाष्टमः संगतोऽभूत् ॥ ८ ॥
इति श्रीजगन्नाथसम्राविरचिते रेखागणिते
अष्टमोऽध्यायः समाप्तः ॥ ८ ॥