सामग्री पर जाएँ

पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/५८

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति
४२

अथ त्रयोविंशतितमं क्षेत्रम् ॥ २३ ॥

 यौ द्वावङ्कौ घननिष्पत्तौ भविष्यतस्तयोर्मध्ये यद्येको घनो भवति तदा द्वितीयोऽपि घनो भविष्यति ।
 यथा अबौ जदघनयोनिष्पत्तौ कल्पितौ । तयोर्यदि अं घनस्तदा वाऽङ्कोऽपि घनो भविष्यति ।

अस्योपपत्तिः ।

 जदौ घनौ स्तः । अनयोर्मध्ये तथा द्वावङ्कौ पतिष्यतो यथैते चत्वारोऽङ्का एकनिष्पत्तौ भविष्यन्ति । एवं हि अबयोर्मध्ये द्वावङ्कौ तथा पतिष्यतो यथैतेऽपि चत्वारोऽङ्का एकनिष्पत्तौ स्युः ।अः घनोऽस्ति | तस्मात् वः घनो जातः । इदमेवास्माकमिष्टम् ॥ २३ ॥

अथ चतुर्विंशतितमं क्षेत्रम् ॥ २४ ॥

 यावङ्कौ द्वयोर्वर्गयोर्निष्पत्तौ भवतस्तदैतौ घातफलाङ्कौ सजातीयौ भवतः[१] ।  यथा अबौ जदवर्गयोर्निष्पत्तौ कल्पितौ | अबौ सजातीयौ घातफलाङ्कौ भविष्यतः ।

अस्योपपत्तिः ।

 जदयोर्मध्ये तथैकाङ्कः पतिष्यति यथैते त्रयोऽप्येकनिष्पत्तौ भविष्यन्ति । एवम् अबमध्येऽपि । तस्मात् अबौ सजातीयौ घातफलाङ्को भविष्यतः ।

अथ पञ्चविंशतितमं क्षेत्रम् ॥ २५ ॥

 यावङ्कौ द्वयोर्घनयोर्निष्पत्तौ स्तस्तदा तावङ्कौ सजातीयघनफलाङ्कौ भविष्यतः ।

 अस्योपपत्तिः क्षेत्रन्वासश्च पूर्वोक्तवत् ज्ञेयः॥

  1. ↑ भविष्यतः K.