पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनोपपत्तिः । दं जहाभ्यां गुणितं फले अवे जाते । अनयोनिष्पत्तिर्जहनिष्प- तितुल्या भविष्यति । पुनर्हे दझाभ्यां गुणितं वबे उत्पन्ने । अनयो- निष्पत्तिर्दशनिष्पत्तितुल्या भविष्यति । जहनिष्पत्तितुल्यापि भविष्यति । अवनिष्पत्तिः अवनिष्पत्तिवर्गतुल्यास्ति । जहनिष्पत्तिवर्गतुल्याऽपि भविष्यति । इदमेवाऽस्माकमिष्टम् ॥ १६ ॥ अथ सप्तदर्श क्षेत्रम् ॥ १७ ॥ सजातीययोर्धनफलयोर्मध्ये तादृशौ द्वावड़ी यदि तथा पततो यथा चतुर्णामङ्काना मेकनिष्पत्तिर्भवति घनफलस्य निष्पत्तिर्धनफलेन या भवति सा सजातीयभुजनिष्पत्तिधन- तुल्या भवति । यथा अबे सजातीये घनफले कल्पिते । अभुजा जदहा: कल्पि- ताः । बभुजा झवताः कल्पिताः। जझनिष्पत्तिर्दवनिष्पत्तितुल्यास्ति । हतनिष्पत्तितुल्याप्यस्ति । जं द्गु- णितं कमुत्पन्नम् | झं वगुणितं ल मुत्पन्नम् | तस्मात् कलौ सजातीयौ घातफलाङ्को भविष्यतः । अनयो- र्मध्ये मः अङ्कः पतति तदा कमलास्त्रयोऽङ्का जझनिष्पत्तौ पतिष्यन्ति । पुनर्हतौ मगुणितौ नसावुत्पन्नौ । एतयोर्निष्पत्तिर्हतनिष्पत्तितुल्या भविष्यति । अझनिष्पत्तितुल्यापि भविष्यति । अनयोर्निष्पत्तिः कमल- निष्पत्तितुल्यास्ति । जझनिष्पत्तितुल्याप्यस्ति | तस्मात् अनसबाश्च- त्वारोऽङ्का जझनिष्पत्तौ भविष्यन्ति । अवनिष्पत्तिः अननिष्पत्तिधन- तुल्यास्ति । जझनिष्पत्तिघनतुल्या भविष्यति । इदमेवास्साकमिष्टम् || अथाष्टादशं क्षेत्रम् ॥ १८ ॥ द्वयोरङ्कायोर्मध्ये कश्चिदङ्कः पतति । यद्येतेऽङ्का एकनिष्पत्तौ भवन्ति तदा तो द्वावको सजातीयघातफले भविष्यतः । १ इदमेवास्मदिष्टम् K. अ, ३०. न, ६०. स, १२० ब, २४०. क, ६. म, १२. ल. २४. ज, २. द. ३. द्द, ५. झ, ४० ब, ६. त, १०.