यथा अं घनः कल्पितः । जं भुजः कल्पितः । बः अन्यघनः कल्पितः । दस्तस्य भुजः कल्पितः । यदि अः बं निःशेषं करोति
तदा जः दं निःशेषं करिष्यति ।
अस्योपपत्तिः ।
जदाभ्यां हवझास्त्रयोsङ्का एकनिष्पत्तावुत्पादिताः । पुनर्जदौ
वगुणितौ फलं तं कम् । तदा अतकबा जदनिष्पत्तावुत्पत्स्यन्ते । अं
बं निःशेषं करोति । तस्मात् अः तमपि निःशेषं करोति[१] । जः दमपि
निःशेषं करिष्यति ।
पुनर्ज: दं निःशेषं कुर्यात् । तदा अः तं निःशेषं करिष्यति ।
तस्मात् अः वं निःशेषं करिष्यति । इदमेवास्माकमिष्टम् ॥
अस्मादिदं निश्चितं यदि घनो घनं निःशेषं
न करोति तदा तस्य भुजोऽन्यभुजं निःशेषं
न करिष्यति । यद्येकाङ्कोऽन्याङ्कं निःशेषं न करोति तदा तस्य घनो
द्वितीयघनं निःशेषं न करिष्यति ॥
अथ षोडशं क्षेत्रम् ॥ १६ ॥
ययोः सजातीयघातफलाङ्कयोर्मध्ये यद्येकाङ्कस्तथा[२] पतति यथैतत्रयमेकनिष्पत्तौ भवति तदा घातफलयोर्निष्पत्तिर्या भवति सा सजातीयतद्भुजनिष्पत्तिवर्गतुल्या भवति ।
यथा सजातीयघातफले अबकल्पिते । अभुजौ जदौ कल्पितौ ।
बभुजौ हझौ कल्पितौ । जहनिष्पत्तिदझनिष्पत्तितुल्या भविष्यति । यदि दं
हगुणितं वमुत्पन्नमिति कल्प्यते तदा
अवबा एकनिष्पत्तौ भविष्यन्ति ।