अहनिष्पत्तिवर्गतुल्या जदनिष्पत्तिवर्गतुल्या च जाता । इदमेवास्माकमिष्टम् ॥
अथ द्वादशं क्षेत्रम् ॥ १२ ॥
द्वयोर्घनयोर्मध्ये द्वावङ्कौ यदि तथा पततो यथा चतुर्णामङ्कानमेकनिष्पत्तिर्भवति तदा घनस्य स्वघनेन निष्पत्तिर्भुजनिष्पत्तिघनतुल्या भवति ।
यथा अबौ घनौ कल्पितौ । जदौ च भुजौ कल्पितौ । जदाभ्यां
हझवास्त्रयोऽङ्का एकनिष्पत्तौ भविष्यन्ति ।
तस्माज्जहघातः अं भविष्यति । दवघातश्च वं भविष्यति । पुनर्जदौ झगुणितौ कार्यौ फलं तकौ कल्पितौ । तस्मात्
अतकबा अतनिष्पत्तौ जदनिष्पत्तावपि भविष्यन्ति । अबनिष्पत्तिर्जदनिष्पत्तिघनतुल्या भविष्यति । इदमेवास्माकमिष्टम् ॥
अथ त्रयोदशं क्षेत्रम् ॥ १३ ॥
येऽङ्का एकरूपनिष्पत्तौ भवन्ति तेषां वर्गा अप्येकरूपनिष्पत्तौ भवन्ति । तथा घना अप्येकरूपनिष्पत्तौ भवन्ति ।
यथा अबजास्त्रयोऽङ्का एकनिष्पत्तौ कल्पिताः । दहझा एतेषां
वर्गाः कल्पिताः । वतका धनाः
कल्पिताः । यदि अं बेन गुण्यते
तदा फलं लसंज्ञं भवति । बं जेन
गुणितं मं भवति । तस्मात् दलहमझा एतेऽङ्का एकनिष्पत्तौ भविष्यन्ति । तस्मात् दहयोर्निष्पत्तिर्हझनिष्पत्तिसमाना भविष्यति । तस्मात् वर्गा अप्येकनिष्पत्तौ भविष्यन्ति |
पुनरपि अं लहाभ्यां[१] गुण्यते तदा नसे फले भवतः । जं. हमाभ्यां
- ↑ इलाभ्यां D.