पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहनिष्पत्तिवर्गतुल्या जदनिष्पत्तिवर्गतुल्या च जाता । इदमेवामा- कमिष्टम् ॥ अथ द्वादशं क्षेत्रम् ॥ १२ ॥ द्वयोर्धनयोर्मध्ये द्वावो यदि तथा पततो यथा चतुर्णा- मङ्काना मेकनिष्पत्तिर्भवति तदा घनस्य स्वधनेन निष्पत्ति- र्भुजनिष्पत्तिधनतुल्या भवति । यथा अब घनौ कल्पितौ । जदौ च भुजौ कल्पितौ । जदाभ्यां हझवायोऽङ्का एकनिष्पत्तौ भविष्यन्ति । तस्माज्जहघातः अं भविष्यति । दवधा- तश्व वं भविष्यति । पुनर्जदौ झगुणि- तौ कार्यों फलं तक कल्पितौ । तस्मात् अतकबा अतनिष्पत्तौ जदनिष्पत्तावपि भविष्यन्ति । अवनिष्पत्ति- र्जदनिष्पत्तिघनतुल्या भविष्यति । इदमेवास्माकमिष्टम् ॥ अ, ८. त, , १२. क, १८. ब, २७. ह, ४. झ, ६. व, ९. ज, २. द, ३. अथ त्रयोदर्श क्षेत्रम् ॥ १३ ॥ येऽङ्का एकरूपनिष्पत्तौ भवन्ति तेषां वर्गा अध्येकरूपनि- व्यत्तौ भवन्ति । तथा घना अध्येकरूपनिष्पत्तौ भवन्ति । यथा अबजास्त्रयोऽङ्का एकनिष्पत्तौ कल्पिताः । दहझा एतेषां वर्गाः कल्पिताः । वतका धनाः अ, २. ब, ४. ज, ८. फ, २५६. क, ५१२. कल्पिताः । यदि अं बेन गुप्यते द, ४. ल. ८. ह, १६. म, ३२. झ, ६४. तदा फलं लसंज्ञं भवति । बं जेन च, ८. न, १६.स, ३२. त, ६४. ग. १२८. गुणितं मं भवति । तस्मात् दल- हमझा एतेऽङ्का एकनिष्पत्तौ भविष्यन्ति । तस्मात् दहयोर्निष्पत्तिर्हझ- निष्पत्तिसमाना भविष्यति । तस्मात् वर्गा अप्येकनिष्पत्तौ भविष्यन्ति | पुनरपि अं लहाभ्यां गुण्यते तदा नसे फले भवतः । जं. हमाभ्यां १ इलाभ्यां D.