निःशेषं करिष्यति । हं छनिःशेषमासीत्[१] तस्मात् कहौ छं निःशेषं
करिष्यतः । लः लघ्वङ्कोऽस्ति यं कहौ निःशेषं करिष्यतः । तस्मात्
लं छं निःशेषं करिष्यति । छं च लघ्वङ्कोऽस्ति । इदमशुद्धम्। तस्मान्नसलमा एवं लघ्वङ्का भविष्यन्ति । इदमेवेष्टम् ॥
अथ पञ्चमं क्षेत्रम् ॥ ५॥
घातफलाङ्कस्य घातफलाङ्केन निष्पत्तिस्तद्भुजनिष्पत्योर्घातो भविष्यति ।
यथा अघातफलाङ्कस्य जदौ भुजौ कल्पितौ बघातफलस्य
हझौ भुजौ कल्पितौ । तस्मात् अबयोर्निष्पत्तिः जहदझनिष्पत्त्योर्घातो भविष्यति ।
अनयोर्निष्पत्त्योर्वतकं लघ्वङ्का ग्राह्याः। तस्मात् जहनिष्पत्तिर्वतनिष्पत्तिसमाना भविष्यति । दझनिष्पत्तिस्तकनिष्पत्तिसमानास्ति । अनयोर्निष्पत्त्योर्घातो
वकनिष्पत्तिरस्ति | दहघातो लः कल्पितः । तस्मात् वतनिष्पत्तितुल्या जहनिष्पत्तिः अलनिष्पत्तिसमाना भविष्यति । दझनिष्पत्तितुल्या तकनिष्पत्तिर्लबनिष्पत्तितुल्या भविष्यति । तस्मात्नि वकष्पत्तिर्निष्पत्तिद्वयघातः अबनिष्पत्तिसमाना भविष्यति । इदमेवास्माकमिष्टम् ॥
अथ षष्ठं क्षेत्रम् ॥ ६ ॥
यदि बहवोsङ्का एकनिष्पत्तौ भवन्ति तत्र यदि प्रथमाङ्को द्वितीयं निःशेषं न करोति तदा कोऽप्यङ्कोऽग्रे निःशेषं न करिष्यति ।
यथा अबजदहमेकनिष्पत्तौ कल्पितम् । अं बं निःशेषं न करोति ।
तस्मात् कोऽपि कमपि निःशेषं न
करिष्यति । यदि जदहनिष्पत्तौ झवता लघ्वङ्का गृह्यन्ते
- ↑ ° निःशेषकमासीत् K