अथाष्टमोऽध्यायः प्रारभ्यते ॥ ८ ॥
॥तत्र पञ्चविंशतिक्षेत्राणि सन्ति ॥
अथ प्रथमं क्षेत्रम् ॥ १ ॥
यावन्तोऽङ्का एकनिष्पत्तौ भवन्ति तेषामाद्यन्तौ भिन्नाङ्कौ चेद्भवतस्तदा तस्यां निष्पत्तौ तान् विनाऽन्ये लघ्वङ्का न भविष्यन्ति ।
यथा एकस्यां निष्पत्तौ अवजदा लघ्वङ्का कल्पिताः । अदौ मिथो भिन्नौ कल्पितौ | तस्मादस्यां निष्पत्तावेते लघ्वकाः सन्ति ।
अस्योपपत्तिः ।
यद्येते लघ्वङ्का अस्यां निष्पत्तौ न भवन्ति तदा तस्यां निष्पत्तौ
तेभ्यो लघवोऽन्येऽङ्का हझवताः कल्पिताः ।
तस्मात् अदनिष्पत्तिर्हतनिष्पत्तिसमाना भविष्यति । अदौ यौ भिन्नाङ्कौ तावस्यां निष्पत्तौ लघ्वङ्कौ भविष्यतः । यावन्तोऽङ्का
अस्यां निष्पत्तौ भवन्ति तान् अदावेव निःशेषं करिष्यतः | तस्मात्
अं हं निःशेषं करिष्यति । अं हादधिकमस्ति | इदमेवामाकमिष्टम् ॥
अथ द्वितीयं क्षेत्रम् ॥ २ ॥
एकनिष्पत्तौ ये लघ्वङ्का भवन्ति तेषामुत्पादनमिष्टमस्ति ।
यथा अबनिष्पत्तौ चतुर्णां लघ्वङ्कानामुत्पादनमिष्टमस्ति । अस्यां
निष्पत्तौ अबौ लघ्वङ्कौ कल्पितौ । अवर्गः कार्यः | पुनर् अबघातः कार्यः । पुनर्बवर्गः कार्यः । फलानां च जदहसंज्ञा कार्या । पुनरेतत्रयेण अं गुणनीयम् | बहघातश्च कार्यः । एतेषां फलानि झवतकानि कल्पितानि ।
अस्योपपत्तिः ।
अम् अबाभ्यां गुणितं फलं जं दमुत्पन्नम् । तदा अबनिष्पत्तिः