पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बाकः अं निःशेषं करोति । तस्माद्रूपं बं निःशेष तथा करोति यथा जाङ्कः अं निःशेषं करोति । तस्मात् जाङ्कः बअंशनामकः अं निःशेषं करिष्यति । इदमेवास्माकमिष्टम् || अथोनचत्वारिंशत्तमं क्षेत्रम् ॥ ३९ ॥ तत्र यस्य बहवोंऽशाः प्राप्यन्ते तादृशो लध्वको निष्पाद- नीयोऽस्ति | यथा अवजा अंशाः कल्पिताः । दहझनामका अङ्काः कल्पिताः । तस्मात्तादृशो लध्वङ्कः कल्पनीयो यं दहझा अ, ज, निःशेषं करिष्यन्ति । असावको वं कल्पि- ब, तः । तस्मात् अर्थ स लध्वकोऽस्ति यस्य ते कल्पितांशा लभ्यन्ते । द.. झ.... व..... त-- अस्योपपत्तिः । यद्ययं लध्वको न भवति तदा तो लध्वङ्कः कल्पितः । कल्पिता अंशाः तलध्यकस्य भविष्यन्ति । एतल्लघ्वङ्कनामसदृशा अड्डा हदझा एनं निःशेषं करिष्यन्ति । लध्वको वात् लघुरस्ति । इदमनुपपन्नम् | तस्मात् व एवेष्टाङ्कः । इदमेवाऽस्माकमिष्टम् ॥ ३९ ॥ श्रीमद्राजाधिराजप्रभुवरजयसिंहस्य तुक्षै द्विजेन्द्रः श्रीमत्सम्राड् जगन्नाथ इति समभिधारूढितेन प्रणीते । अन्थेऽस्मिन्नाम्नि रेखागणित इति सुकोणावबोधप्रदात- र्यध्यायोऽध्येतृमोहापह इह विरतिं सप्तमः संगतोऽभूत् ॥ ७ ॥ इति श्रीजगन्नाथसम्नाविरचिते रेखागणिते सप्तमोऽध्यायः समाप्तः ॥ ७ ॥