पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ व्यत्तिर्जद निष्पत्तितुल्या भविष्यति । तस्मात् ञं महदको दं लध्वमपि निःशेषं करिष्यति । इदमशुद्धम् । तस्मात् जात् कोऽपि लवको न भविष्यति यं अब निःशेषं कुरुतः । यदि अब मिलिताको स्तस्तस्मात् झहौ तस्यां निष्पत्तौ लवको कल्पितौ । तस्मात् अबनिष्पत्तिर्झहनिष्पत्तितुल्या भविष्यति । अह घातफलमथवा बझघातफलं च जं कल्पितम् । इदमेवास्माकमिष्टम् । अबौ जं निःशेषं कुरुत इति प्रकटमेवास्ति । अयं लध्वङ्गः कुतोऽस्ति । यद्ययं लवको न भवति तदाऽस्मात् लध्वको दं कल्पितः । अमुम् अं वतुल्यं निःशेषं करोति बं च ततुल्यं निःशेषं क- रोति । तस्मात् अवघातो दं भविष्यति । बतघा- तोऽपि दं भविष्यति । तस्मात् अवनिष्पत्तिः तवनि व्पत्तिसमाना भविष्यति । झहनिष्पत्तिसमाना आ- सीत् । तस्मात् झहनिष्पत्तिः तवनिष्पत्तिसमाना द- भविष्यति । अस्यां निष्पत्तौ झहौ लग्वको स्तः । तस्मात् झं तं निःशेषं करिष्यति । पुनर्व झेन गुणितं जं जातं तेन गु- णितं दं जातम् । झतनिष्पत्तिर्जदनिष्पत्तितुल्या भविष्यति । तस्मात् जं महदको दं लध्वकं निःशेषं करिष्यति । इदमशुद्धम् । अस्मदिष्टमेव समीचीनम् || ज व--- त अ.... ब...... झ.. अथ पञ्चत्रिंशत्तमं क्षेत्रम् ॥ ३५ ॥ यं लवङ्गमन्यौ कावष्यको निःशेषं कुरुतः सोऽङ्कस्ता- भ्यामङ्काभ्यां निःशेषितमन्यांङ्कं निःशेषं करिष्यति । यथा वतं लध्वङ्कः कल्पितः । अभुं अबदा निःशेष कुरुतः । पुनरेतावड़ौहझाङ्कं निःशेषं कुरुतः | तस्मात् वताकोऽपि हझं निःशेष करिष्यति । 7 K omits अन्य in अन्याङ्कं.