पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुनरपि अजबजौ मिलितौ कल्पितौ अबबजावपि मिलितौ भवि- ध्यतः । यदि मिलितौ न स्तस्तदाऽनयो रूपं विनाsपवर्तको न भवि घ्यतीति । अजमपि रूपं विना न कोऽप्यपवर्तयतीति । इदमशुद्धम् । इष्टमुपपन्नम् || अथैकोनत्रिंशत्तमं क्षेत्रम् ॥ २९ ॥ योगाङ्कं प्रथमाको निःशेषं करोति । यथा अं योगाङ्कः कल्पितः । बम् अस्यापवर्तकं कल्पितम् । यदि बं प्रथमाको भवति तदेष्टमस्माकं समीचीनम् । यदि बं प्रथमाको न भवति तदा बस्यापवर्तकं जं कल्पितम् । अनेनैव प्रकारेण जं प्रथमाको भविष्यति । यद्ययं न स्या- त्तदाऽन्यः कल्पनीयः । एवं कोऽप्यस्यापवर्तनाको भविष्यति । तदेव जं कल्पितम् । तस्मात् जम् अमपि निःशेषं करिष्यति । इदमेवेष्टम् ॥ अथ त्रिंशत्तमं क्षेत्रम् ॥ ३० ॥ अ.... ब.. ज योऽङ्कः कश्चित् स प्रथमाङ्को भवति । अथवा तस्यापवर्तकः प्रथमाको भवति । यथा अं कल्पितम् । यदीदं प्रथमाङ्कः स्यात्तदैवमिष्टं जातम् । यदि प्रथमाको न भवति तदा योगाङ्को भविष्यति । यो गाङ्कं प्रथमाङ्कः निःशेषं करिष्यत्येव । इदमेवास्माकमिष्टम् || अथैकत्रिंशत्तमं क्षेत्रम् ॥ ३१ ॥ यमङ्क प्रथमाङ्को निःशेषं न करोति तस्मात् प्रथमाको भिन्नो भवति । अ... यथा अं प्रथमाङ्कः कल्पितः । यमङ्कं प्रथमाङ्को निःशेषं न अ... करोति सोऽको बं कल्पितः । तस्मात् अं बाद्भिनं भविष्यति । ब..... १ तदैवं D.