अथ द्वाविंशतितमं क्षेत्रम् ॥ २२ ॥
भिन्नाङ्कावल्पौस्तस्तन्निष्पत्तावन्यावल्पावङ्कौ न भविष्यतः।
यथा अबौ द्वौ भिन्नाङ्कावल्पौ कल्पितौ । एतन्निष्पत्तावन्यावङ्कावल्पौ न भविष्यतः । यदि अन्यावङ्कौ एतन्निष्पत्तावल्पौ
स्यातां तदा जदौ कल्पितौ । तस्मात् जं अं हतुल्यं निःशेषं करिष्यति । दं बं हतुल्यं निःशेषं करिष्यति । हं
अं जतुल्यं निःशेषं करिष्यति । हं बं दतुल्यं निःशेषं करिष्यति । तस्मात् अबौ मिलिताङ्कौ जातौ । पूर्वं कल्पितौ तु भिन्नाङ्कौ | इदं बाधितम् । अस्मदिष्टमेव समीचीनम्॥
अथ त्रयोविंशतितमं क्षेत्रम् ॥ २३ ॥
द्वयोर्भिन्नाङ्कयोरेकमङ्कन्यस्तृतीयोऽङ्को निःशेषं करोति चेत्तदा तृतीयोऽङ्को द्वितीयाङ्केन साकं भिन्नो भविष्यति ।
यथा अबौ द्वौ भिन्नाङ्कौ कल्पितौ । जं तृतीयाङ्को यथा अं निःशेषं करिष्यति तथा कल्पितः । तदा जबाङ्कौ[१] भिन्नौ भविष्यतः ।
अस्योपपत्तिः ।
यदि जबाङ्कौ भिन्नौ न भविष्यतः तदोभयोरपवर्तनार्थं दं कल्पितः । तस्मात् दं जं निःशेषं करिष्यति । जं अं निःशेषं
करोति । तस्मात् दं अं निःशेषं करिष्यति । दं बमपि निःशेषं करोति ।
तस्मात् अबौ मिलिताङ्कौ जातौ । कल्पितौ भिन्नाङ्कौ। इत्यशुद्धम् ।
तस्मादस्मदिष्टं समीचीनम् ॥
अथ चतुर्विंशतितमं क्षेत्रम् ॥ २४ ॥
यौ द्वावङ्कौ तृतीयाङ्काद्भिन्नौ स्तस्तयोर्घातोऽपि तस्मात्तृतीयाङ्काद्भिन्नो भवति ।
- ↑ जं बाङ्काद्भिन्नो भविष्यति K. भा० ३