अस्योपपत्तिः ।
हझम् अबस्यांशोऽस्ति वा यावद्गुणितोंऽशोऽस्ति । यदि यावद्गुणितोंऽशो भवति तदा हझस्य कचिह्नोपरि हककझौ अबांशतुल्यौ कल्पितौ । तदैते[१] एवांशा जदस्य भविष्यन्ति । तौ च बललतौ कल्पितौ । हकं वलस्य तत्प्रमाणं भविष्यति यत्प्रमाणं हझं वतस्य
भवति । तस्मात् हकबलौ हझवतयोन्यूनौ भविष्यतः । हझवतयोर्निष्पत्तितुल्यौ भविष्यतः । हझवतौ अस्यामेव निष्पत्तौ न्यूनाङ्कौ कल्पितौ । इदमशुद्धम् । तस्मात् हझम् अबस्यांशो भविष्यति । तदा वतं जदस्यांशो भवति । न यावद्गुणितोंऽशः । तस्मात् हझं यावद्वारम् अबं निःशेषं करिष्यति तावद्वारं वतं जदं निःशेषं करिष्यति । इदमेवास्माकमिष्टम् ॥
अथैकविंशतितमं क्षेत्रम् ॥ २१ ॥
ये लघ्वङ्कास्तथैकनिष्पत्तौ यदि भवन्ति यथान्ये तेभ्यो लघ्वङ्कास्तन्निष्पत्तौ न भवन्ति । तदा तेऽङ्का भिन्ना भवन्ति । यथा अबौलघ्वङ्कौ एकस्यां निष्पत्तौ कल्पितौ । एतौ भिन्नौ भविष्यतः ।
अस्योपपत्तिः।
यदि भिन्नौ न स्तस्तदोभयोर्जं अपवर्तनं कल्पितम् । जं यावद्वारम् अं निःशेषं करोति तत्फलं हं कल्पितम् । पुनर् जं बं यावद्वारं निःशेषं करोति तत्फलं दं कल्पितम् । तस्मात् जं हदाभ्यां गुण्यते तदाऽनयोर्घातः अं बं भविष्यति । तस्मात् हदनिष्पत्तिः अबनिष्पत्तितुल्या भविष्यति । एतद्वयं हं दम् अबयोर्न्यूनमस्ति । इदमशुद्धम् । अस्मदिष्टमेव समीचीनम् ॥
- ↑ तदा वते त एवां॰ K.