समानास्ति | जदनिष्पत्तिश्च वहानिष्पत्तिसमानास्ति । तस्मात् वहनिष्पत्तिर्वझनिष्पत्तिसमाना भविष्यति । तस्मात् वनिष्पत्तिर्हेन झेन तुल्या जाता । तस्मात् हझे समाने जाते ।
पुनरपि हं झं समानं कल्पितम् । तस्मात् अबनिष्पत्तिर्जदनिष्पत्तितुल्या भविष्यति ।
अस्योपपत्तिः ।
पूर्वप्रकारेण वझनिष्पत्तिः अबनिष्पत्तिसमानास्ति । वहनिष्पत्तिर्जदनिष्पत्तिसमानास्ति । वहनिष्पत्तिर्वझनिष्पत्तिर्मिथस्तुल्यास्ति ।
कुतः | हझयोस्तुल्यत्वात् । अतः अबजदनिष्पत्तिर्मिथः समाना भविष्यति । इदमेवास्माकमिष्टम् ॥
अनेन क्षेत्रेणेदमपि सिद्धम् ।
यदि तादृशास्त्रयोङ्का भवन्ति येषु प्रथमद्वितीययोर्निष्पत्तिद्वितीयतृतीययोर्निष्पत्तिसमाना भवति तत्र प्रथमतृतीयघातो द्वितीयवर्गतुल्यो
भवति । इदमपि ज्ञातम् ।प्रथमतृतीयघातो यदि द्वितीयवर्गतुल्यो भवति
तदा प्रथमद्वितीयनिष्पत्तिर्द्वितीयतृतीयनिष्पत्तितुल्या भवति ॥
अथ विंशतितमं क्षेत्रम् ॥ २० ॥
यत्र लघ्वङ्का एकनिष्पत्तौ तथा भवन्ति यथैतेभ्यो लघ्वङ्कास्तन्निष्पत्तौ न भवन्ति तदैतेऽङ्कास्तस्यामेव निष्पत्तौ ये बृहदङ्कास्तान् निःशेषान् करिष्यन्ति । यथाक्रमं लघ्वङ्केषु लघ्वङ्कास्ते महदङ्केषु लघ्वङ्कानिशेषान् करिष्यन्ति । लघ्वङ्केषु ये महदङ्कास्ते महदङ्केषु महदङ्कान्निःशेषान् करिष्यन्ति।
यथा अबजदे एकनिष्पत्तौ कल्पिते । हझं वतं तस्यामेव निष्पत्तौ लध्वङ्कौ कल्पितौ । तस्मात् हझं अबं यावद्वारं निःशेषं करिष्यति वतं जदं तावद्वारमेव निःशेषं करिष्यति ।