तुल्या भविष्यति । बहनिष्पत्तिर्जझनिष्पत्तितुल्या भविष्यति । तस्मात् अदनिष्पत्तिर्जझनिष्पत्तितुल्या भविष्यति । यदि व्यत्यासः क्रियते तदा अजनिष्पत्तिर्दझनिष्पत्तितुल्या भविष्यति । इदमेवास्माकमिष्टम् ॥
अथ पञ्चदशं क्षेत्रम् ॥ १५ ॥
यदि रूपं द्वितीयाङ्कं यावद्वारं निःशेषं करोति तावद्वारं
तृतीयाङ्कश्चतुर्थाङ्कं निःशेषं करोति चेत्तत्र विनिमये क्रियमाणे रूपं यावद्वारं तृतीयं निःशेषं करिष्यति तावद्वारं द्वितीयं चतुर्थं निःशेषं करिष्यति ।
यथा अबं कल्पितम् । एनमेकाङ्कस्तावद्वारं निःशेषं करोति यावद्वारं जदं हझं निःशेष करोति । तस्मादेकाङ्को जदं तथा निःशेषं करिष्यति यथा अबं
हझं निःशेषं करिष्यति ।
अस्योपपत्तिः ।
हझमध्ये यावन्ति जदानि सन्ति तावन्ति अबमध्ये रूपाणि सन्ति । यावन्तो हझस्य कलचिह्नोपरि जदतुल्या विभागाः क्रियन्ते तावन्तः अबस्य वचिह्नतचिह्नोपरि रूपाङ्कतुल्या[१] विभागाः कार्याः । तस्माद् रूपं[२] जदं तथा निःशेषं करिष्यति यथा प्रत्येकम् अववततबानि हककललझान् निःशेषान् करिष्यन्ति । अपि च संपूर्णम् अबं
संपूर्ण हझं निःशेषं करिष्यति । इदमेवास्माकमिष्टम् ॥
अथ षोडशं क्षेत्रम् ॥ १६ ॥
तत्र गुण्यगुणकयोर्घातो वा गुणकगुण्ययोर्घातस्तुल्यो
भवति ।
यथा अबगुणनफलं जसंज्ञं कल्पितम् । पुनर्बअगुणनफलं दं कल्पितम् | जं दं च मिथस्तुल्यमस्ति ।