पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ तुल्या भविष्यति । बहनिष्पत्तिर्जझनिष्पत्तितुल्या भविष्यति । तस्मात् अदनिष्पत्तिर्जझनिष्पत्तितुल्या भविष्यति । यदि व्यत्यासः क्रियते तदा अजनिष्पत्तिर्दझनिष्पत्तितुल्या भविष्यति । इदमेबारमाकमिष्टम् ॥ अथ पञ्चदर्श क्षेत्रम् ।। १५ ।। यदि रूपं द्वितीयाङ्कं यावद्वारं निःशेषं करोति तावद्वारं तृतीयाश्चतुर्थाङ्कं निःशेषं करोति चेत्तत्र विनिमये क्रिय- माणे रूपं यावद्वारं तृतीयं निःशेषं करिष्यति तावद्वारं द्वि- तीयं चतुर्थं निःशेषं करिष्यति । यथा अब कल्पितम् । एनमेकाङ्कस्तावद्वारं निःशेषं करोति याव द्वारं जदं हझं निःशेष करोति । तस्मादेका- 1 को जदं तथा निःशेषं करिष्यति यथा अब हृझं निःशेषं करिष्यति । अ.व. द. ब ज.. द ह.. क.. ल.. झ अस्योपपत्तिः । हझमध्ये यावन्ति जदानि सन्ति तावन्ति अनमध्ये रूपाणि सन्ति । यावन्तो हझस्य कलचिह्नोपरि अदतुल्या विभागाः क्रियन्ते तावन्तः अबस्य वचिहृतचिह्नोपरि रूपाङ्कतुल्या विभागाः कार्याः । तस्माद् रूपं जदं तथा निःशेषं करिष्यति यथा प्रत्येकम् अववतत- बानि हककललझान् निःशेषान् करिष्यन्ति । अपि च संपूर्णम् अब संपूर्ण हझं निःशेषं करिष्यति । इदमेबास्माकमिष्टम् ॥ अथ षोडशं क्षेत्रम् ॥ १६ ॥ तत्र गुण्यगुणकयोर्घातो वा गुणकगुण्ययोर्घातस्तुल्यो भवति । यथा अबगुणनफलं जसंज्ञं कल्पितम् । पुनर्बअगुणनफलं कल्पितम् | जं दं च मिथस्तुल्यमस्ति । १ एकाङ्क० K, २ एकं K.