पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकारान्तरम् । अनेनैव प्रकारेण योगान्तरयोर्निष्पत्तिनिश्चयः कार्यः । यथा अब- अ. ब......अ वजनिष्पत्तिर्दहहझनिष्पत्तितुल्या कल्पिता | यद्यनयोयोगः क्रियते वान्तरं क्रियते तदा अजजक्योर्निष्पत्तिर्दशझहनिष्पत्तितुल्या भ विष्यति । अस्योपपत्तिः । यदि व्यत्यासः क्रियते तदा अबदहनिष्पत्तिर्वज इझनिष्पत्ति- तुल्या भविष्यति । तस्मात् अजदयोर्निष्पत्तिर्वजहझनिष्पत्तितुल्या भविष्यति । तस्मात् अजबजनिष्पत्तिर्दझहझनिष्पतितुल्या भविष्यति । इदमेवास्माकमिष्टम् ॥ अथ चतुर्दर्श क्षेत्रम् ॥ १४ ॥ यत्र द्विप्रकारकाङ्का भवन्ति तत्र यदि प्रथमप्रकारे प्रथम- द्वितीययोर्निष्पत्तिद्वितीयप्रकारे प्रथमद्वितीयनिष्पत्तितुल्या भवति प्रथमप्रकारे द्वितीय तृतीयनिष्पत्तिद्वितीयप्रकारे द्वि- तीयतृतीयनिष्पत्तिसमाना भवति तत्र यदि मध्यमनिष्पत्ति- स्त्यज्यते तदा प्रथमप्रकारे आद्यन्तनिष्पत्तिद्वितीयप्रकारस्या- द्यन्तनिष्पत्तिसमाना भवति । यथा अबजम् एकप्रकारकाङ्काः कल्पिताः । दहझं द्वितीयप्रका- रकाङ्काः कल्पिताः । तत्र अवयोर्निष्पत्तिर्दह- निष्पत्तितुल्या कल्पिता । बजयोर्निष्पत्तिर्हझ ब ...... निष्पत्तितुल्या कल्पिता । तस्मात् अजनिष्पत्ति- देझनिष्पत्तितुल्या भविष्यति । अस्योपपत्तिः | यदि निष्पत्त्या विनिमयः क्रियते तदा अदयोर्निष्पत्तिर्बहनिष्पत्ति- १ निष्पत्तेर्नि० K. २ निष्पत्तिविनिमयः K ....