पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१७ प्रत्येकचतुर्भुजस्य कर्णाः समाना भविष्यन्ति । तस्मात् समचतुर्भुज- समकोणा भविष्यन्ति । तदोत्पन्नं धनहस्तक्षेत्रं भविष्यति । इदमवेष्टेम् ॥ अथ षष्ठं क्षेत्रम् ॥ ६॥ तत्र विंशतिफलकक्षेत्रमध्ये द्वादशफलकक्षेत्रचिकीर्षास्ति । यथा अवजहदवझछतथकलं विंशतिफलकक्षेत्रं कल्पितम् । अस्य त्रिभुजानां केन्द्राण्युत्पादनीयानि । तेषु चिह्नानि कार्याणि । तत्र रेखाः संयोज्याः | तस्मादुत्पन्नं क्षेत्रमिष्टं भविष्यति । अस्योपपत्तिः । यदि एभ्यः केन्द्रेभ्यो लम्बास्त्रिभुजेषु निष्कास्यन्ते । एते लम्बा समाना भविष्यन्ति | समकोणसंबन्धिभुजा भविष्यन्ति । तस्मात् कोणसन्मुखभुजाः सं- माना भविष्यन्ति । तासु पञ्चपञ्चरेखा एकध- रातँले वेष्टनं कुर्वन्ति ! पुनरपि यदि विंशतिफलकक्षेत्रकर्णः सन्मु- खकोणगतो भवति । कर्णार्द्धाच पञ्चत्रिभुजेषु लम्बा निष्कास्याः । त्रिभुजानि तथाविधानि कार्याणि येषां कोणाः कर्णशिरःसंभक्ता भव- न्ति । एते लम्बाः समानाश्च स्युः | पुनर्यत्र लम्बाः पतन्ति ततः कर्णोपरि लम्बा निष्कास्याः । तदैते लम्बा एकस्मिन्नेव चिह्ने पतिष्यन्ति । तस्मात् पञ्चरेखा या: केन्द्रसंसक्का- स्ता एकस्मिन्नेव धरातले भविष्यन्ति । पुनरपि त्रिभुजकेन्द्राणामन्तराणि लम्बानां संपातचिह्नात् समानानि भविष्यन्ति । प्रत्येक केन्द्रद्वयान्तर- मपि मिथः समानमस्ति । तदा पञ्चसमभुजकोणा अपि समाना भवि- ३ V. inserts १V. omits अथ. र त्रिभुजभुजेषु निष्कास्यन्ते V. अपि ४ तलवेष्टनं V. ५ संसक्ता V. भा० २८