२१७
प्रत्येकचतुर्भुजस्य कर्णाः समाना भविष्यन्ति । तस्मात् समचतुर्भुजसमकोणा भविष्यन्ति । तदोत्पन्नं घनहस्तक्षेत्रं भविष्यति । इदमवेष्टेम् ॥
[१]अथ षष्ठं क्षेत्रम् ॥ ६ ॥
तत्र विंशतिफलकक्षेत्रमध्ये द्वादशफलकक्षेत्र चिकीर्षास्ति ।
यथा अबजहदवझछतयकलं विंशतिफलकक्षेत्रं कल्पितम् । अस्य त्रिभुजानां केन्द्राण्युत्पादनीयानि । तेषु चिह्नानि कार्याणि । तत्र रेखाः संयोज्याः । तस्मादुत्पन्नं क्षेत्रमिष्टं भविष्यति ।
अस्योपपत्तिः ।
यदि एभ्यः केन्द्रेभ्यो लम्बास्त्रि[२]भुजेषु निष्कास्यन्ते । एते लम्बाः[३] समाना भविष्यन्ति । समकोणसंबन्धिभुजा भविष्यन्ति । तस्मात् कोणसन्मुखभुजाः [४]समाना भविष्यन्ति । तासु पञ्चपञ्चरेखा एकधरात[५]ले वेष्टनं कुर्वन्ति।
पुनरपि यदि विंशतिफलकक्षेत्रकर्णः सन्मुखकोणगतो भवति । कर्णार्द्धाच्च पञ्चत्रिभुजेषु लम्बा निष्कास्याः । त्रिभुजानि तथाविधानि कार्याणि येषां कोणाः कर्णशिरःसंभ[६]क्ता भवन्ति । एते लम्बाः समानाश्च स्युः । पुनर्यत्र लम्बाः पतन्ति ततः कर्णोपरि लम्बा निष्कास्याः । तदैते लम्बा एकस्मिन्नेव चिह्ने पतिष्यन्ति । तस्मात् पञ्चरेखा याः केन्द्रसंसक्तास्ता एकस्मिन्नेव धरातले भविष्यन्ति । पुनरपि त्रिभुजकेन्द्राणामन्तराणि लम्बानां संपातचिह्नात् समानानि भविष्यन्ति । प्रत्येककेन्द्रद्वयान्तरमपि मिथः समानमस्ति । तदा पञ्चसमभुजकोणा अपि समाना भवि -