एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१८
ष्यन्ति । पञ्चसमभुजक्षेत्रस्य त्रयस्त्रयः कोणा इष्टक्षेत्रस्य कोणाः स्युः । तस्मादिष्टक्षेत्रस्य कोणा अपि समाना भविष्यन्ति । इदमेवास्माकमिष्टम् ॥
श्रीम[१]द्राजाधिराजप्रभुवरजयसिंहस्य तुष्ट्यै द्विजेन्द्रः
श्रीमत्सम्राड् जगन्नाथ इति समभिधारूढितेन प्रणीते।
ग्रन्थेऽस्मिन्नाम्नि रेखागणित इति सुकोणावबोधप्रदात-
र्यध्यायोऽध्येतृमोहापह इह विरतिं विश्वसंख्यो गतोऽयम्[२] ॥
- ↑ १ K., A. have-
शिल्पशास्त्रमिदं प्रोक्तं ब्रह्मणा विश्वकर्मणे।
पारम्पर्य्यवशादेतदागतं धरणीतले ॥
तद्विच्छिन्नं महाराजजयसिंहाज्ञया पुनः ।
प्रकाशितं मया सम्यग् गणकानन्दहेतवे ॥ - ↑ २ V. has after this समाप्तोऽयं ग्रन्थः। शुभं भूयात् । सं० १७८४.
युगवसुनगभूवर्षे शुचि शुक्ले युगतिथौ रवेर्वारे ।
व्यलिखल्लोकमणिः किल सम्राजामाज्ञया पुस्तम् ॥ १ ॥