पुटपरिशीलयितुं काचित् समस्या अस्ति
२१५
यथा बझं घनहस्तः कल्पितः । अझ झजअजअहजहझहरेखाः संयोज्याः । तस्मात् अजझहमस्माकमिष्टं भविष्यति । कुतः । अस्य भुजा घनहस्तभुजानां कर्णा भविष्यन्ति । इदमिष्टम् ॥
[१]अथ तृतीयं क्षेत्रम् ॥ ३ ॥
यस्य शङ्कोः फलकानां भुजाः समाना [२]भविष्यन्ति तस्यान्तरष्टफलकक्षेत्रं कर्त्तुमिच्छास्ति।
यथा अबजदं शङ्कुः कल्पितः । अस्य षड् अपि भुजा अर्द्धिताः । अर्द्धचिह्नेषु रेखाः संयोज्याः । वझलयतहम् अष्टभुजक्षेत्रमुत्पन्नं भविष्यति । इदमेवास्माकमिष्टम् ॥
[३]अथ चतुर्थं क्षेत्रम् ॥ ४ ॥
घनहस्तक्षेत्रान्तरष्टफलकक्षेत्रं कर्त्तुमिच्छास्ति ।
यथा अबजदहवझछं घनहस्तः कल्पितः । घनहस्तफलककर्णसंपातचिह्नेषु रेखाः संयोज्याः । यतलकमसअष्टफलकक्षेत्रमुत्पन्नं भविष्यति ।
अस्योपपत्तिः ।
तचिह्नात् गफरेखा हअरेखायाः समानान्तरा निष्कास्या । रख-