पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ ॥ अथ पञ्चदशोऽध्यायः ॥ १५ ॥ || अस्मिन्षट् क्षेत्राणि ॥ ६ ॥ || अथ प्रथमं क्षेत्रम् ॥ १ ॥ तत्र व्यासार्द्धस्य तथाविधे द्विखण्डे कर्त्तव्ये यथा व्यासा ईस्य महत्खण्डे या निष्पत्तिस्तथामहत्खण्डस्य लघुखण्डेन भवति तदा वृत्तदशमांशस्य पूर्णज्या महत्खण्डं भवति । यथा अबरेखाया जचिह्ने तथा खण्डे कृते । बजे महत्खण्डं कल्पि तम् । पुनर् अवरेखया सह बदरेखा वृत्तदशमांशस्य पूर्णजीवातुल्या संयोज्या | तैस्मात् अदरेखा वचिद्वे उपरितननिष्पत्तितुल्यविभागा भविष्यति । पुनर्हवरेखा अबरेखातुल्या कल्प्या । अस्या झुचिह्ने उपरितननिष्पत्तितुल्ये खण्डे कृते । वझं बजतुल्यं कल्प्यम् । तदा अ- अवयोनिष्पत्तिर्हववशयोनिष्पत्तितु- अ हृ झ ब स व्यास्ति । अबबदयोर्निष्पत्तिर्वझझहयोर्निष्पत्तितुल्यास्ति । तस्मात् अबझहघातो बदवझघाततुल्यो भविष्यति । अब वहतुल्यमस्ति । तस्मात् वहझहषातो बदवझघाततुल्यो भविष्यति । वहझहघातो वझवर्गतुल्योऽस्ति । तस्मात् वझं बजतुल्यं बदतुल्यं भविष्यति । तस्मात् बजे वृत्तदशमांशस्य पूर्णजीवा भविष्यति । इदमेवास्माकमिष्टम् ।। अथ द्वितीय क्षेत्रम् ॥ २ ॥ घनहस्तक्षेत्रमध्ये यस्य फैलकाः समाना भवन्ति तादृशः शङ्कुरुत्पादनीयोऽस्ति । १V. omits अथ. २ अपेक्षिते K., A ३ V. notices तदा also. ४ समो K., À ५V. omits अथ. ६ फलकानि समानानि K., A. ७ तादृशशङ्कचिकीर्षारित.