२१४
॥ अथ पञ्चदशोऽध्यायः ॥ १५ ॥
॥ अस्मिन्षट् क्षेत्राणि ॥ ६ ॥
॥ [१]अथ प्रथमं क्षेत्रम् ॥ १ ॥
तत्र व्यासार्द्धस्य तथाविधे द्विखण्डे [२]कर्त्तव्ये यथा व्यासार्द्धस्य महत्खण्डे या निष्पत्तिस्तथामहत्खण्डस्य लघुखण्डेन भवति तदा वृत्तदशमांशस्य पूर्णज्या महत्खण्डं भवति ।
यथा अबरेखाया जचिह्ने तथा खण्डे कृते । बजं महत्खण्डं कल्पितम् । पुनर् अबरेखया सह बदरेखा वृत्तदशमांशस्य पूर्णजीवातुल्या संयोज्या । [३]तस्मात् अदरेखा बचिह्ने उपरितननिष्पत्तितुल्यविभागा भविष्यति । पुनर्हवरेखा अबरेखातुल्या कल्प्या । अस्या झचिह्ने उपरितननिष्पत्तितुल्ये खण्डे कृते । वझं बजतुल्यं कल्प्यम् । तदा अदअबयोर्निष्पत्तिर्हववझयोर्निष्पत्तितुल्यास्ति । अबबदयोर्निष्पत्तिर्वझझहयोर्निष्पत्तितुल्यास्ति । तस्मात् अबझहघातो बदवझघाततुल्यो भविष्यति । अबं वहतुल्यमस्ति । तस्मात् वहझहघातो बदवझघाततु[४]ल्यो भविष्यति । वहझहघातो वझवर्गतुल्यो ऽस्ति । तस्मात् वझं बजतुल्यं बदतुल्यं भविष्यति । तस्मात् बजं वृत्तदशमांशस्य पूर्णजीवा भविष्यति । इदमेवास्माकमिष्टम् ॥
[५]अथ द्वितीयं क्षेत्रम् ॥ २ ॥
घनहस्तक्षेत्रमध्ये यस्य [६]फलकाः समाना भवन्ति [७]तादृशः शङ्कुरुत्पादनीयोऽस्ति ।