पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ण्डलघुखण्डयोर्निष्पत्तितुल्या भवति तदास्य महत्खण्डं झतुल्यं भवि- ध्यति । तस्मात् बरेखाझरे खयोर्निष्पत्तिर्बजरेखालरेखयोनिष्पत्तितुल्या भविष्यति । हरेखातरेखयोरपि निष्पत्तितुल्यास्ति । तस्मात् वरेखाहरे- खयोर्निष्पत्तिर्झरेखातरेखयोर्निष्पत्तितुल्या भविष्यति । इदमेवेष्टम् || अथ दशमं क्षेत्रम् ॥ १० ॥ तत्रेष्टरेखाया: खण्डद्वयं तथा कार्य यथा सर्वरेखानिष्पत्ति- महत्खण्डेन तथास्ति यथा महत्खण्डलघुखण्डयोरस्ति | ये ये प्रकारा अस्यां रेखायां भवन्ति ते ते प्रकारा एतन्निष्पत्तिवि- भागगतास्वन्यरेखासु भवन्ति । यथा अब जचिह्ने एतन्निष्पत्तिसदृशं खण्डद्वयं कल्पितम् । पुनर्म- हत्खण्डं च अजं कल्पितम् | अन्या रेखा दहं कल्पिता । अस्या झचिह्ने तनिष्पत्तौ खण्डद्वयं कल्पितम् । पुनर्महत्खण्डं दझं कल्पितम् | अबअजनिष्पत्तिः अजजबयोर्निष्पत्तितुल्यास्ति । पुनर्दहदझनि- प्पत्तिर्दझझहनिष्पत्तितुल्यास्ति । अबबजवातअजवर्गयोर्निष्पत्ति- र्दहहझघातदझवर्गनिष्पत्तितुल्यास्ति । चतुगुर्णअब बजघातअज- वर्गनिष्पत्तिश्चतुर्गुणदहहझघातदझवर्गनिष्पत्तितुल्यास्ति । चतुर्गुण- अबबजघातअजवर्गयोगनिष्पत्तिः अजव- र्गेण तथास्ति यथा चतुर्गुणितदहहझवात- दझवर्गयोगस निष्पत्तिर्दझवणास्ति । अ- बबजयोगनिष्पत्तिः अजेन तथास्ति यथा दहह्झयोगनिष्पत्तिर्दशे- नास्ति । तस्मात् द्विगुणअबनिष्पत्तिः अजेन तथास्ति यथा द्वि- गुणदहनिष्पत्तिर्दझेनास्ति । अबभजयोर्निष्पत्तिर्दहदझयोनिष्पत्ति- तुल्यास्ति । अबवजनिष्पत्तिर्दह हझनिष्पत्तितुल्यास्ति । तस्मात् अबदहनिष्पत्तिः अजदझनिष्पत्तितुल्यास्ति । जबहझनिष्पत्तेरपि १ निष्पत्यापि V. अ ज झ .