२१०
षडंशः तद्वृत्तव्यासस्य त्रयश्चतुर्भागाश्चानयोर्घातः पञ्चभुजक्षेत्रफलतुल्यो भवति ।
यथा अहं वृत्तं कल्पितम् । तन्मध्ये अबकलजं पञ्चभुजक्षेत्रं कल्पितम् । सन्मुखकोणस्य बजपूर्णज्या कल्पिता। अदहव्यासः कल्पितः । दहं झचिह्ने अर्द्धितं कार्यम्। तस्मात् अझं व्यासस्य त्रयश्चतुर्भागा भविष्यन्ति । जतस्य जवं तृतीयांशः पृथक्कार्यः । तस्मात् बवं बजस्य पञ्चषष्ठांशा भवन्ति । अझनिष्पत्तिः अदेन तथास्ति यथा बतनिष्पत्तिः तवेनास्ति ।
अझतवघातो बतअदघाततुल्योऽस्ति। अयं द्विगुणितअदब क्षेत्रफलतुल्योऽस्ति । दझम् अदस्यार्द्धमस्ति । तदा बतअझघातः अदबत्रिभुजस्य त्रिगुणक्षेत्रफलतुल्यो भविष्यति । तवअझघातो बतअझघातयुतस्तदा अझबवघातः पञ्चभुजस्य क्षेत्रफलं भविष्यति । इदमेवेष्टम्॥
अथाष्टमं क्षेत्रम् ॥ ८ ॥
द्वादशधरातलविंशतिधरातलक्षेत्रे यदि गोलमध्ये पततस्तदा तद्धरातलयोर्निष्पत्तिर्गोलान्तर्गतघन हस्तभुजविंशतिधरातलक्षेत्रभुजयोर्निष्पत्तितुल्या भवति ।
पञ्चभुजं त्रिभुजं वृत्तं व्यासश्च पूर्वोक्तवत् कल्पनीयः । बजं घनहस्तस्य भुजः संयोज्यः । तस्मात् अयं व्यासस्य त्रयश्चतुर्थांशाः भविष्यन्ति । तदा अयस्य बजपञ्चगुणितषष्ठांशजसस्य च घातः पञ्चभुजक्षेत्रफल तुल्योऽस्ति । तस्मात् अयसंज्ञं द्वादशगुणजसेन गुणितं अथवा दशगुणितवजेन चेद्गुण्यते तदा द्वादशधरातल क्षेत्रस्य संपूर्णधरातलफलं भवति । अयसंज्ञं चेत्