२०७
स्त्रिगुणितझदवर्गतुल्योऽस्ति । यतो लमपञ्चवर्गा झदस्य त्रयो वर्गाश्च पृथक् अबवर्गतुल्याः सन्ति । तस्मात् लमपञ्चवर्गा लनपञ्चवर्गाश्च सर्वेषां योगतुल्यः पञ्चगुणिततयवर्गो भवति । अयं त्रिगुणझदवर्गस्त्रिगुणदजवर्गश्चानयोर्योगतुल्योऽस्ति। यस्मिन् वृत्ते तयकं त्रिभुजं पतति तत् व्यासार्द्धत्रिगुणवर्गतुल्यस्तयवर्गो भवति । यद्वृत्तान्तर्जदहवझं पञ्चभुजं पतति तत्र पञ्चगुणतदव्यासार्द्धवर्गतुल्यो झददजवर्गयोगोऽस्ति । यद्वृत्तान्तस्तयकत्रिभुजं पतति पञ्चदशगुणतव्यासार्द्धवर्गतुल्यः पञ्चगुणतयवर्गो भवति । यद्वृत्तान्तर्जदहवझपञ्चभुजं पतति पञ्चदशगुणिततव्यासार्द्धवर्गतुल्यस्त्रिगुणो झददजवर्गयोगो भवति । पुनः पञ्चगुणस्तय वर्गस्त्रिगुणझददजवर्गयोगतुल्यो भवति । तस्मात् यस्मिन् वृत्ते तयकत्रिभुजं पतति अथ च यद्वृत्ते जदहवझं पञ्चभुजं पतति द्वयोर्व्यासार्द्धवर्गौ तुल्यौ भवतः । तस्माद् व्यासार्द्धवर्गयो स्तुल्यत्वाद्वृत्तेऽपि तुल्ये जाते । इदमेवास्माकमिष्टम् ॥
अथ चतुर्थं क्षेत्रम् ॥ ४ ॥
द्वादशफलकघनक्षेत्रस्य पञ्चभुजा यस्मिन् वृत्ते पतन्ति तद्वृत्तकेन्द्रान्निःसृतो लम्बः पञ्चभुजस्य भुजं यदा गच्छति तदा पञ्चभुजस्यैकभुजलम्बयोर्घातस्त्रिंशद्गुणितो द्वादशफलक घनक्षेत्रस्य संपूर्णधरातलतुल्यो भवति ।