पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ अथ चतुर्दशाध्यायः प्रारभ्यते ॥ १४ ॥ ॥ अत्र दश क्षेत्राणि सन्ति ॥ १० ॥ अंथ प्रथमं क्षेत्रम् ॥ १ ॥ वृत्तकेन्द्रात् पञ्चभुजस्य भुजोपरि यो लम्बो भवति स वृत्तषष्ठांशपूर्णजीवादशमांशपूर्णजीवायोगस्यार्द्ध भवति । यथा दकेन्द्रोपरि अवजवृत्तं बर्ज पञ्चभुजस्य भुजो दहलम्बश्च कल्पितः । अयं लम्बो झुपर्यन्तं वर्द्धनीयः । अझरेखा च कार्या | इयं वृत्तदशमांशपूर्णजीवा जाता | दर्ज जझादधिकमस्ति । तस्मात् हक्षं दहान्यूनं भविष्यति । कुतः | जझस्य जदान्यूनत्वात् । पुनर्दहात् हवं हझतुल्यं पृथक् कार्यम् । जवरेखा संयोज्या । अद- जकोणो जदझकोणाचतुर्गुणोऽस्ति । दझजकोणाद्विगुणोऽस्ति | जव- झकोगादपि द्विगुणोऽस्ति । जवझकोणो बदजकोणवजदकोणयोगो बदजकोणाद्विगुणोऽस्ति । तस्मात् बज़दकोणवदजकोणौ समानौ भविष्यतः । एवं वजभुजवदभुजौ समानौ भविष्यतः । तस्मात् जझझहयोगो हदसमानो जातः । अयं द्विगुणो द्विगुणहदसमानो भवति । द्विगुणं हृदं दशमांशपूर्णज्याषष्ठांशपूर्णज्यायोगतुल्यमस्ति । तस्मात् हदं षष्ठांशपूर्णज्यादशमांशपूर्णज्यायोगार्द्धं जातम् । इदमेवा- स्माकमिष्टम् || अथ द्वितीयं क्षेत्रम् ॥ २ ॥ पञ्चसमभुजस्य भुजवर्गोऽस्य कोणसन्मुखपूर्णण्यावर्गो- Sनयोयोगः पञ्चगुणितव्यासावर्गतुल्यो भवति । १ तत्र V.