एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०४
द्वादशास्रभुजो भविष्यति । इदं प्रकटमस्ति । अदं गोलान्तर्गतशङ्कुभुजोऽष्टास्रभुजस्य बझभुजादधिकोस्ति । पुनर्बझं बदघनहस्तभुजादधिकमस्ति । बदं विंशत्यस्रभुजाद् बनादधिकमस्ति । तदा बनं द्वादशफलकभुजात् बसादधिकं भविष्यति । कुतः | अजवर्गश्चतुर्गुणबजवर्गतुल्योऽस्ति । दबवर्गस्त्रिगुणबजवर्गेण तुल्योऽस्ति । तस्मात् अजं दबादधिकं भविष्यति । अममत्यधिकं भविष्यति । प्रत्येकम् अमे दमे च उभे महत्खण्डे मलबसे स्तः । तस्मात् मलतुल्यं मनं बसादधिकं भविष्यति । बसमत्यधिकं भविष्यति । इदमेवेष्टम् ॥
श्रीमद्राजाधिराजप्रभुवरजयसिंहस्य तुष्ट्यै द्विजेन्द्रः
श्रीमत्सम्राड् जगन्नाथ इति समभिधारूढितेन प्रणीते। ग्रन्थेऽस्मिन्नाम्नि रेखागणित इति सुकोणावबोधप्रदात-
र्यध्यायोऽध्येतृमोहापह इह विरतिं विश्वसंख्यो गतोऽयम् ॥
॥ इति त्रयोदशोऽध्यायः ॥ १३ ॥