पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशास्त्रभुजो भविष्यति । इदं प्रकटमस्ति । अदं गोलान्तर्गतशङ्क- भुजोष्टभुज बभुजादधिकोस्ति । पुनर्बझं बदघनहस्तभु- जादधिकमस्ति । बदं विंशत्यसभुजादू बनादधिकमस्ति । तदा बनं द्वादशफलकभुजात् बसादधिकं भविष्यति । कुतः । अजवर्ग- तुर्गुणबजवर्गतुल्योऽस्ति । दबवर्गस्त्रिगुणबजवर्गेण तुल्योऽस्ति । तस्मात् अजं दबादधिकं भविष्यति । अममत्यधिकं भविष्यति । प्रत्येकम् अमे दमे च उभे महत्खण्डे मलबसे स्तः । तस्मात् मलतुल्यं मर्न बसादधिकं भविष्यति । बसमत्यधिकं भविष्यति । इदमेवेष्टम् ॥ श्रीमद्राजाधिराजप्रभुवरजयसिंहस्य तुध्यै द्विजेन्द्रः श्रीमत्सम्राड् जगन्नाथ इति समभिधारूढितेन प्रणीते । ग्रन्थेऽस्मिन्नाम्नि रेखागणित इति सुकोणावबोधप्रदात- र्यध्यायोऽध्येत्तृमोहापह इह विरतिं विश्वसंख्यो गतोऽयम् ॥ ॥ इति त्रयोदशोऽध्यायः ॥ १३ ॥