पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षष्ठं क्षेत्रम् ॥ ६॥ यदि राशिद्वयं राशिद्वयस्य यावदंशो भवति तदा द्वयो- योगो राशिद्वययोगस्य स एव यावदंशो भविष्यति । यथा अब जदस्य यावदंशः कल्पितस्तदा हझं वतस्य तावदंशः कल्पनीयः । तस्मात् अबहझयोगोऽपि अ... क ... व जदवतयोगस्य स एवं यावदंशो ज भविष्यति । व...... त अस्योपपत्तिः । अबस्य कचिह्नोपरि जदांशैस्तुल्या विभागाः कार्याः । हझे ल चिह्नोपरि वतांशतुल्या विभागाः कार्याः । अकं जदस्य हलं वत- स्य चैकांशो भविष्यति । तस्मात् अकहलयोगो जदबत्तयोगस्य स ए- वांशो भविष्यति । पुनर् अकं कब हललझयोरेकरूपमस्ति । तस्मात् द्वयोयोगो जदवतयोगस्य एकरूपा यावदंशा भविष्यन्ति । इदमेवा- स्माकमिष्टम् || अथ सप्तमं क्षेत्रम् ॥ ७॥ राशिहूयं तथा भवति यथैकराशिद्वितीयराशेरंशो भ वति । अन्यराशिद्वयं तथा भवति यथैकरा शिद्धितीयराशे- रप्येकोंऽशो भवति । न्यूनं तद्राशिद्वयं पूर्वराशिद्वयमध्ये चेच्छोध्यते तदा शेषं शेषस्य स एवांशो भविष्यति । यथा अब जदस्यांशः अहं जझस्य स एवांशोऽस्ति । अहं अबाच्छोषितं जझं जदाच्छोधितं तदा अ.... द्द .. ब हबशेषं झदशेषस्य स एवांशो भविष्यति । अस्योपपत्तिः । हवं जवस्य सोंडशः कल्पितः योऽशः अहं जझस्यास्ति । तस्माद् अब वझस्य स एवांशो भविष्यति । जदस्यापि स एवांश आसीत् ।