२०१
लम्बा: फखरेखातुल्या उभयोर्धरातलयोर्निष्कास्याः । एते लम्बाः खथरसशघाः कल्पिताः । पुनर् अखअघअथ[१]थससझझघरेखाः संयोज्याः । तस्मात् तफवर्गतखवर्गयोः अतवर्गतखवर्गयोर्वा योगः अखवर्गतुल्यो भवति । अयं त्रिगुणखफवर्गतुल्योऽस्ति । त्रिगुणखथवर्गस्यापि तुल्योऽस्ति । पुनर् अथवर्गश्चतुर्गुणखथवर्गतुल्योऽस्ति। तस्मात् अथरेखा द्विगुणखफरेखातुल्या भविष्यति। तदा खरतुल्या भविष्यति । थसतुल्यापि भविष्यति। एतत्प्रकारेण निश्चितम् अघरेखा घझरेखा झसरेखा थसरेखा समाना भविष्यन्ति । तस्मात् अथथससझझघघअ[२]भुजाः समाना भविष्यन्ति । पुनः फझलम्बः अजधरातले खफतुल्यः निष्कास्यः । पुनर्झललखरेखे संयोज्ये । तदा फततुल्यफलरेखाया निष्पत्तिः शघतुल्यखफरेखया कीदृश्यस्ति । यादृशी झफरेखातुल्यखफरेखाया निष्पत्तिः शलरेखातुल्यतखरेखयास्ति । फलरेखा शघरेखायाः समानान्तरास्ति । तदा झफरेखा लशरेखायाः समानान्तरा भविष्यति । तस्मात् झलघं सरलैका रेखा भविष्यति । अलझं सरलैका रेखास्ति तस्मात् [३]अथसझघं पञ्चसमभुजं एकधरातले भविष्यति [४]यतो झलघरेखाअलझरेखयोर्धरातलमस्ति । तस्मिन् पुनर् असं अरं द्वे रेखे संयोज्ये । तररेखा फचिह्ने एतादृक्खण्डितास्ति यथा सर्वरेखाया महत्खण्डेन निष्पत्तिर्महत्खण्डस्य लघुखण्डेन चास्ति। अस्या महत्खण्डं तफमस्ति । तस्मात् तरवर्गरफवर्गौ तरवर्गरसवर्गतुल्यौ स्तः । तद्योगः तअवर्गतुल्यस्य तफवर्गत्रिगुणोऽस्ति । पुनस्तअवर्ग उभयोर्योज्यः । तस्मात् तरवर्गरसवर्गतवर्गाणां योगः