सामग्री पर जाएँ

पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२००

 पञ्चसमभुजस्य भुजो न्यूनरेखा ततो भवति यतो वृत्तव्यासोऽङ्कसंज्ञार्हो भवति । अत्र तु गोलव्यासोऽङ्कसंज्ञार्होऽस्ति । वृत्तव्यासोऽङ्कसंज्ञार्हो नास्ति । परं तु वृत्तव्यासार्द्धवर्गो गोलव्यासवर्गस्य पञ्चमांशोऽस्ति । तदा वृत्तव्यासः केवलमङ्कसंज्ञार्हो भविष्यति । यस्य वृत्तस्य व्यासोऽङ्कसंज्ञार्हो भवत्यन्यवृत्तव्यासवर्गः केवलमङ्कसंज्ञार्हो भवति तदा प्रथमव्या सनिष्पत्तिर्द्वितीयवृत्तव्यासेन तथा भवति यथा प्रथमवृत्तान्तः पञ्चसमभुजभुजस्य निष्पत्तिर्द्वितीयवृत्ते पञ्चसमभुजमुजेनास्ति । यदि द्वयोर्व्यासयोर्वर्गौ मिलितौ भवतस्तदा द्वयोर्भुजयोरपि वर्गौ मिलितौ भविष्यतः । तस्मादस्य क्षेत्रस्य पञ्चसमभुजस्य भुजो न्यूनरेखया केवलवर्गमिलितो भविष्यति । न्यूनरेखया या मिलिता रेखा स्यात् सा केवलवर्गमिलिता भविष्यति । तदा सापि न्यूनरेखा भवति । तस्मादस्य क्षेत्रस्य भुजो न्यूनरेखा भविष्यति॥

अथ विंशतितमं क्षेत्रम् ॥ २० ॥

 गोलस्यान्तः समभुजद्वादशफलकं क्षेत्रं कर्तुमिच्छास्ति यथा प्रत्येकं फलकः पञ्चसमभुजः समानकोणो भविष्यति । अस्य क्षेत्रस्य भुजोऽन्तररेखा भविष्यति यदि व्यासोऽङ्कसंज्ञार्हो []भविष्यति ।
 यथा अबअजे उभे धरातले अगोलान्तर्गतघन हस्तक्षेत्रस्य कल्पिते । एकं धरातलं द्वितीये धरातले लम्बवत् कल्पितं भवति । पुनरेतद्वयोर्धरातलयोः सर्वभुजानां वतकलमनसचिह्नेष्वर्द्धं कार्यम् । पुन रेतचिह्नेषु मिथः संपा[]तकारिण्यः धरातलभुजानां समानान्तरा रेखाः संयोज्याः । प्रत्येकं तफरेखाकफरेखागलरेखानां रचिह्नखचिह्नशचिह्नेषु []द्वाविमौ तथा कार्यौ यथा प्रत्येकस्य स्वमहत्खण्डेन तथा निष्पत्तिर्भवति या महत्खण्डस्य लघुखण्डेनास्ति। एतासां महत्खण्डानि फरफखगश संज्ञानि कल्पितानि । पुनः खरशचिह्नेभ्यः


  1. १ भवति K., A.
  2. २ संपातकर्त्र्यः V.
  3. ३ द्वौ विभागौ V.