पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चसमभुजस्य भुजो न्यूनरेखा ततो भवति यतो वृत्तव्यासोऽङ्कसं- ज्ञा भवति । अत्र तु गोलव्यासोऽङ्कसंज्ञाऽस्ति । वृत्तव्यासोऽङ्कसं- ज्ञा नास्ति । परं तु वृत्तव्यासार्द्धवर्गो गोलव्यासवर्गस्य पञ्चमांशोऽस्ति । तदा वृत्तव्यासः केवलम संज्ञार्हो भविष्यति । यस वृत्तस्य व्यासोs- संज्ञा भवत्यन्यवृत्तव्यासवर्गः केवलमङ्कसंज्ञार्हो भवति तदा प्रथमव्या- सनिष्पत्तिद्वितीयवृत्तव्यासेन तथा भवति यथा प्रथमवृत्तान्तः पञ्चसम- भुजभुजस्य निष्पत्तिद्वितीयवृत्ते पञ्चसमभुजभुजेनास्ति । यदि इयो- यसयोर्वग मिलितौ भवतस्तदा द्वयोर्भुजयोरपि वर्गो मिलितौ भवि- ध्यतः । तस्मादस्य क्षेत्रस्य पञ्च समभुजस्य भुजो न्यूनरेखया केबलवर्ग- मिलितो भविष्यति । न्यूनरेखया या मिलिता रेखा स्यात् सा केवल- वर्गेमिलिता भविष्यति । तदा सापि न्यूनरेखा भवति । तस्मादस्य क्षेत्रस्य भुजो न्यूनरेखा भविष्यति ॥ अथ विंशतितमं क्षेत्रम् ॥ २० ॥ गोलस्यान्तः समभुजद्वादशफलकं क्षेत्रं कर्तुमिच्छास्ति यथा प्रत्येक फलकः पञ्चसमभुजः समानकोणो भविष्यति । अस्य क्षेत्रस्य भुजोऽन्तररेखा भविष्यति यदि व्यासोऽङ्कसं- ज्ञार्हो भविष्यति । यथा अबअजे उभे घरातले अगोलान्तर्गतघन हस्तक्षेत्रस्य कल्पिते । एकं धरातलं द्वितीये घरातले लम्बवत् कल्पितं भवति । पुनरेतद्द्यो- र्धरातलयोः सर्वभुजानां वतकलमनसचिहेष्वर्द्ध कार्यम् । पुन रेतच्चिद्वेषु मिथः संपातकारिण्यः घरातलभुजानां समानान्तर रेखा: संयोज्या: । प्रत्येकं तफरेखाकफरेखागलरेखानां रचिह्नखचिह्नश- चिद्वेषु द्वाविमौ तथा कार्यों यथा प्रत्येकस्य स्वमहत्खण्डेन तथा निष्पत्तिर्भवति या महत्खण्डस्य लघुखण्डेनास्ति । एतासां महत्व- ण्डानि फरफखगशसंज्ञानि कल्पितानि । पुनः खरशचित्रेभ्यः १ भवति K.,, A. २ संपातकर्ज्य: V. ३ द्वौ विभागौ V.