पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्गाद्विगुणोऽस्ति । तदा गोलव्यासवर्गो घनक्षेत्रभुजवर्गाद्विगुणो भवि- व्यति । इदमेवेष्टम् || अथैकोनविंशतितमं क्षेत्रम् ॥ १९ ॥ 'गोलान्तविंशतिफलकयुतं क्षेत्रमुत्पादयितुं येथेष्टमस्ति प्र तिफलकं त्रिभुजं समानभुजं यथा भवति । यदि गोलव्यासोड- इसंज्ञा भवति तदास्य क्षेत्रस्य भुजो न्यूनरेखा पतिष्यति । यथा अवं व्यासः कल्पितः । अस्मात् पञ्चमांशो बजे पृथक् कार्य- म् । अबव्यासोपरि अदबम् अर्द्धवृत्तं कार्यम् । पुनर्जदलम्बो नि- कास्यः | बदरेखा च संयोज्या | पुनरेकं वृत्तं कार्य यस्य व्यासा बदतुल्यं भविष्यति । तद्वृत्तं हझवं कल्पितम् । तद्वृत्तान्तर्हझतवक- पैञ्चसमभुजं कार्यम् । पुनरस्य पञ्चचापानां लमनसगचिद्वेष्वर्द्ध कार्यम् । ततो दशपूर्णजीवाः संयोज्याः | प्रथमपञ्चसमानभुजानां पञ्च- कोणेभ्यो वृत्तव्यासार्द्धतुल्याः पञ्च लम्बाः स्थाप्यास्ते च लम्बा हफझ- खतरवशकतसंज्ञकाः कल्पिताः | पुनर्दशभुजकोणेषु रेखाः संयोज्याः । तस्मात् लमनसगपञ्चसमानभुजं वृत्तेऽन्यत् क्षेत्रं भविष्यति । पुन- दशभुजकोणेभ्यो लम्बमस्तकेषु च दशरेखाः संयोज्याः । एता रेखाः प्रत्येकं वृत्तान्तः समपञ्चभुजभुजेन तुल्या भविष्यन्ति । पञ्चत्रिभुजानि समभुजान्युत्पन्नानि भविष्यन्ति । एषां भूमिर्वृत्तान्तः पञ्चभुजस्य अ १ श्रुतान्तं° K, A. २ इष्यते परंतु प्रतिफलकं fic K., A इष्टमस्ति । प्रतिफलकं V. ३ समानाः V.