पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९७ अर्द्ध वृत्तं कार्यम् । दजलम्बो निष्कास्यः | जबरेखा च संयोज्या | पुनर्जबतुल्या हझरेखा निष्कास्या | पुनर्हझरेखोपरि हवं समको- णसमचतुर्भुजं कार्यम् । पुनर्हवरेखा झकरेखा च संयोज्या । एते रेखे तचिह्ने संपातं करिष्यतः । पुनस्तचिह्नात् लमलम्ब: समकोणसमचतु- र्भुजस्य धरातले उभयतः कार्यः | पुनर् अतुल्यं नतं तसं च पृथ- कार्यम् । पुनर्हनझनव नकन हसझसवसकस रेखाः संयोज्याः । तस्सात् इनझवकसम् इष्टघनक्षेत्रं भविष्यति । अनोपपत्तिः । बदजदसमानरेखावर्गयोगतुल्यो बजवर्गोऽस्ति । बजवर्गो हृझव- इस तुल्योऽस्ति । हझवर्गो हतझतसमानरेखयोर्वर्गयोगतुल्योऽस्ति । त- मात् तहं तझं प्रत्येकं दबतुल्यं भविष्यति । पुनस्तवं तर्क दबस- मानं भविष्यति । तनaसौ दबतुल्यावास्ताम् । तस्मात् नचि सचिह्रे समकोणसमचतुर्भुजकोणेषु यावत्यो रेखा लगिष्यन्ति ताः सर्वाः समाना भविष्यन्ति । तदाष्टौ भुजाः समाना भविष्यन्ति । यदि नसरेखायाम् अबरेखातुल्यायां वृत्तार्डे क्रियते तदा तद्रमणेन तत्सम - कोणसमचतुर्भुजकोणेषु लगिष्यति । कुतः । सर्वेषां लम्बानां दजतु- त्यत्वात् । तस्मादिदं घनक्षेत्रं गोलान्तर्गतं भविष्यति । अबवर्गो वज १ तद्रामणेन D., V. तदा तत् V. D.