सामग्री पर जाएँ

पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२१२

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

१९६

हझरेखोपरि झतं समकोणसमचतुर्भुजं कार्यम् । पुनर्झतसमकोणसमचतुर्भुजोपरि झलं घनहस्तक्षेत्रं []कार्यम् । इदमिष्टं भविष्यति ।

अस्योपपत्तिः ।

 हवरेखा सवरेखा च संयोज्या । सवरेखावर्गः सहवर्गहववर्गयोगतुल्योऽस्ति । हववर्गो झहवर्गझववर्गयोगतुल्योऽस्ति । तस्मात् सववर्गो हझवर्गात्रिगुणो भविष्यति । बदवर्गात्रिगुणोऽपि भविष्यति । अबबजयोर्निष्पत्तिः अबवर्गबदवर्गनिष्पत्तितुल्यास्ति । तस्मात् अबवर्गो बदवर्गात्रिगुणो भविष्यति । तस्मात् अबसवौ समानौ भविष्यतः। यदि सवरेखायामर्द्धवृत्तं क्रियते तस्य चेद् []भ्रमणं क्रियते तदा हचिह्ने लगिष्यति । कुतः । सहवं समकोणोऽस्ति । एवं धनहस्तस्य सर्वकोणेषु लगिष्यति । तस्मादयं घनहस्तः अबगोलान्तः पाती भविष्यति । इदमेवास्माकमिष्टम् ॥

अथाष्टादशं क्षेत्रम् ॥ १८ ॥

 वृत्तान्तर[]ष्टास्रं घनक्षेत्रं कर्तुमिच्छास्ति य[]था प्रतिफलकघनहस्ते सर्वभुजानां समत्वात् त्रिभुजं समानभुजं प्रत्यस्रं त्रिभुजं समानभुजं पतत्यस्य गोलस्य व्यासवर्गो घनक्षेत्र भुजवर्गाद्विगुणे पतिष्यति।
 यथा अबं व्यासः कल्पितः । अयं दचिह्नेऽर्द्धितः कार्यः । अजबम्


  1. १ कृतम् K., A.
  2. २ भ्रामणं V.
  3. ३ अष्टफलकघनक्षेत्रं K., A.
  4. ४ यथा पतति K., A.