पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्गादपि त्रिगुणो भविष्यति । तस्मात् लकम् अदसमानं भविष्यति । S₂₁ अनेनैव प्रकारेण सर्वे भुजाः कार्या: । पुनरपि कझनत्रिभुजदज अत्रिभुजयोग कोणौ समकोणौ स्तः । कोणसंबन्धिभुजौ च समा- नौ स्तः । तस्मात् कनम् अदतुल्यं भविष्यति । अनेन प्रकारेण सर्वा रेखाः समाना भविष्यन्ति । तस्मात् सर्वे शङ्कनुजा: समाना भविष्यन्ति । पुन- जेवतुल्यं ऋतं पृथक्कार्यम् । तस्मात् नतम् अबतुल्यं भविष्यति । देते वृत्ता कार्यम् । तस्योपरि वर्तनं च कार्यम् । तदेदं वृत्तं कचिह्न- लचिह्नमचिद्वेषु लगिष्यति । कुतः | झकझलझमलम्बा जदतुल्याः सन्ति । तस्मादयं शङ्कुरिष्टगोलान्तःपाती भविष्यति । अदवर्ग- अबवर्गयोनिष्पत्तिः अजअबयोर्निष्पतितुल्यास्ति । तस्मात् गोलव्यास- वर्गः शङ्कुभुजस्य सार्द्धतुल्यः पतितः । इदमस्माकमिष्टम् ॥ अथ सप्तदर्श क्षेत्रम् ॥ १७ ॥ गोलान्तर्धनहस्तसंज्ञं क्षेत्रं कर्तुमिच्छास्ति तदा गोलव्यास- वर्गो घनहस्तभुजवर्गात्रिगुणो भवति । यथा अब व्यासः कल्पितः । जचिहेऽस्य तृतीयांश: कार्य: । अस्योपरि अदबं वृत्ता कार्यम् | जदलम्बश्च निष्कास्यः | बदरेखा संयोज्या | अदरेखा संयोज्या | बदरेखातुल्या हझरेखा निष्कास्या | • V. inserts पुन: here. २ क्रियते KA R V. omits अदरेखा संयोज्या ।.