सामग्री पर जाएँ

पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४

पुनः प्रकारान्तरम् ॥

 दझरेखा संयोज्या । इयं रेखा लतरेखायाः समानान्तरा भविष्यति। कुतः। अदझस्य समकोणत्वात्।अतअझयोर्निष्पत्तिस्तलझदयोर्निष्पत्तितुल्या भविष्यति । तस्मात् लतं दझस्यार्द्धं भविष्यति । इदं किमस्ति । दशसमभुजस्य क्षेत्रस्य भुजार्द्धं भवति । पुनः कनं तकतुल्यं पृथक्कार्यम् । तस्मात् तनं षट्समभुजस्य क्षेत्रस्य भुजार्द्धतुल्यं भविष्यति । लनस्य चिह्ने एतादृशे खण्डे जाते लनस्य तनेन निष्पत्तिः तनलतनिष्पत्तितुल्यास्ति । तस्मात् लकवर्गः पञ्चगुणतकवर्गतुल्यो भविष्यति । तस्मात् बकवर्गः पञ्चविंशतिगुणतकवर्गतुल्यो भविष्यति । पञ्चगुणलकवर्गेणापि तुल्यो भविष्यति । पुनः पूर्वप्रकारेण एतामुपपत्तिं पूर्णां कुर्मः ॥

अथ षोडशं क्षेत्रम् ॥ १६ ॥

 गोलान्तश्चतुःफलकः शङ्कुस्तथा कर्त्तव्योऽस्ति यथा प्रतिफलकं त्रिभुजं समभुजं भवति । अस्य गोलस्य व्यासवर्गः शङ्कुभुजस्य सार्द्धवर्गतुल्यः पतिष्यति ।
 यथा गोलव्यासः अबं कल्पितः । अस्योपरि वृत्तार्द्धं कार्यम् । पुन[]र्व्यासतृतीयांशं जबं पृथक्कार्यम् । चिह्नात्ल जदम्बो निष्कास्यः । अदरेखा संयोज्या । एकमन्यवृत्तं कार्यं यस्य व्यासार्द्धं दजतुल्यं भवति । पुनरस्य वृत्तान्तः कलमं समानत्रिभुजं कार्यम् । वृत्तकेन्द्रं च झं कल्पितम् । पुनरस्मात्केन्द्रात् हवलम्बो वृत्तधरातले द्वयोर्दिशोः कार्यः । जअतुल्यं झनं पृथक्कार्यम् । पुनः कनमनलनरेखाः संयोज्याः। तस्मात् कलमनशङ्कुरिष्टो भविष्यति ।

अस्योपपत्तिः ।

 अबबजयोर्निष्पत्तिः अददजनिष्पत्तिवर्गतुल्यास्ति । अबं बजात्रिगुणमस्ति। तस्मात् अदवर्गो दजवर्गास्त्रिगुणो भविष्यति। कझ -


  1. १ व्यासात् V.