पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुनः प्रकारान्तरम् ॥ दशरेखा संयोज्या । इयं रेखा लतरेखायाः समानान्तरा भविष्यति । कुतः । अदझस्य समकोणत्वात् । अतअझयोर्निष्पत्तिस्तलझदयोनि- ष्पत्तितुल्या भविष्यति । तस्मात् लतं दझस्या भविष्यति । इदं किमस्ति । दशसमभुजस्य क्षेत्रस्य भुजार्द्धं भवति । पुनः कनं तक- तुल्यं पृथकार्यम् | तस्मात् तनं षट्समभुजस्य क्षेत्रस्य भुजार्द्ध तुल्यं भविष्यति । लनस्य तचिहे एतादृशे खण्डे जाते लमय तनेन निष्पत्तिः तनलतनिष्पत्तितुल्यास्ति । तस्मात् लकवर्गः पञ्चगुणतकव- र्गतुल्यो भविष्यति । तस्मात् बकवर्गः पञ्चविंशतिगुणतकवर्गतुल्यो. अविष्यति । पञ्चगुणलकवर्गेणापि तुल्यो भविष्यति । पुनः पूर्वप्रकारेण एतामुपपत्ति पूर्णी कुर्मः ॥ अथ षोडशं क्षेत्रम् ॥ १६ ॥ गोलान्तश्चतुःफलकः शङ्कुस्तथा कर्त्तव्योऽस्ति यथा प्रति- फलकं त्रिभुजं समभुजं भवति । अस्य गोलस्य व्यासवर्गः शङ्कुभुजस्य सार्द्धवर्गतुल्यः पतिष्यति । यथा गोलव्यासः अब कल्पितः ! अस्योपरि वृत्तार्द्ध कार्यम् । पुन- यस तृतीयांश जब पृथक्कार्यम् । जचिह्नात् अदलम्बो निष्कासः । अदरेखा संयोज्या | एकमन्यवृत्तं कार्य यस्य व्यासार्द्ध दजतुल्यं भवति । पुनरस्य वृत्तान्तः कलमं समानत्रिभुजं कार्यम् | वृत्तकेन्द्र चझं कल्पितम् । पुनरसात्केन्द्रात् हवलम्बो वृत्तधरातले द्वयोर्दिशोः कार्यः । जअतुल्यं झनं पृथक्कार्यम् । पुनः कनमनलनरेखाः संयोज्याः | तस्मात् कलमनशङ्कुरिष्टो भविष्यति । + अस्योपपत्तिः । अबबजयोनिष्पत्तिः अददजनिष्पत्तिवर्गतुल्यास्ति । अब बजा- त्रिगुणमस्ति । तस्मात् अवर्गो दजवर्गात्रिगुणो भविष्यति । कझ- १ व्यासात् V.