१९१
अथ त्रयोदशं क्षेत्रम् ॥ १३ ॥
वृत्तपञ्चमांशस्य पूर्णजीवावर्गः षष्ठांशपूर्णज्यावर्गदशमांशपूर्णज्यावर्गयोर्योगेन तुल्यो भवति ।
यथा अबदहजवृत्तं बकेन्द्रं कल्पितम् । पञ्चमांशज्या अबं कल्पितम् | पुनर् अवझं व्यासः कल्पितः । बबरेखा संयोज्या । पुनर्वचिह्नात् अबरेखोपरि वतकं लम्बो देयः । पुनर् अककबरेखे संयोज्ये | अकरेखोपरि वलमं लम्बो देयः । पुनः कनरेखा संयोज्या । तदा बमचापं सार्द्धं दशमांशोऽस्ति। बझचापं त्रिगुणदशमांशतुल्यमस्ति। तदा बवझकोणो द्विगुणबवमकोणतुल्यो भविष्यति। अयं बवझकोणो द्विगुणबअवकोणतुल्योऽस्ति । कुतः । बववअभुजयोः साम्यात् । बवनत्रिभुजे बवअत्रिभुजे बवनबअवकोणौ समानौ स्तः । उभयोर्वबनकोण एक एवास्ति । तस्मादुभे त्रिभुजे सजातीये भविष्यतः। तस्मात् अबबवयोर्निष्पत्तिर्वबबनयोर्निष्पत्तिसमाना भविष्यति। तस्मात् अबबनयोर्घातो बववर्गतुल्यो भविष्यति । बवं वृत्तषष्ठांशस्य पूर्णजीवास्ति ।
पुनरपि वलम् अके लम्बोऽस्ति । तस्मात् अकं लचिह्ने अर्द्धं भविष्यति । नअनकयोः साम्येन नकअकोणनअककोणौ कनअत्रिभुजे समानौ भविष्यतः । एवं बकअत्रिभुजे कबअकोणकअबकोणौ समानौ भविष्यतः । कअबकोणो बकअत्रिभुजे कनअत्रिभुजे एक एवास्ति । तस्मादेते त्रिभुजे सजातीये भविष्यतः । तस्मात् बअभुजनिष्पत्तिः अकभुजेन अकभुजअनभुजयोर्निष्पत्तिसमाना भविष्यति । तस्मात् नअअबघातः अकवर्गतुल्यो भविष्यति । अकं दशमांशस्य पूर्णजीवास्ति । अबबनघातः अबअनघातयुक्तः अबवर्ग-