१९०
तस्मात् अजअदवर्गयोगश्चतुर्गुण अदवर्गेण समानो भविष्यति । तस्मात् अदवर्ग उभयोः शोध्यः । तदा अजवर्गस्त्रिगुणअदवर्गतुल्योऽवशिष्यते। इदमेवास्माकमिष्टम्॥
अथ द्वादशं क्षेत्रम् ॥ १२ ॥
वृत्तस्यान्तः समानषड्भुजक्षेत्रमस्ति तथा समानदशभुजमपि क्षेत्रमस्ति तयोः क्षेत्रयोर्भुजयोगस्य समानषड्भुजेन निष्पत्तिस्तथास्ति यथा षड्भुजस्य द[१]शभुजभुजेनास्ति ।
यथा अबजवृत्ते दशभुजस्य भुजो बजं कल्पितः । बजभुजो दचिह्नपर्यन्तं वर्द्धनीयः । षड्भुजक्षेत्रभुजतुल्यं जदं पृ[२]थक्कार्यम्। बदस्य जदेन निष्पत्तिर्दजजबनि[३]ष्पत्तिः।
अस्योपपत्तिः ।
अबचापं चतुर्गुणबजचापतुल्यमस्ति । तदा अहबकोणश्चतुर्गुणबहजकोणतुल्यो भविष्यति । पुनर् अहबकोणो बजहकोणात् द्विगुणोऽस्ति । बजहकोणोदकोणाद्विगुणोऽस्ति । कुतः । जदजहयोः साम्यात्। तस्मात् अहबकोणश्चतुर्गुणितद कोणतुल्यो भविष्यति। तस्मात् बहजकोणबदहकोणौ बजहत्रिभुजे बदहत्रिभुजे च समानौ भविष्यतः । द्वयोस्त्रिभुजयोर्बकोण एक एवास्ति । तस्मादुभे त्रिभुजे सजातीये भविष्यतः । तस्मात् दबभुजस्य निष्पत्तिर्बहभुजेन बहभुजबजभुजनिष्पत्तिसमाना भविष्यति । बहजदौ समानौ स्तः । तस्मात् बददजयोर्निष्पत्तिर्दजजबयोर्निष्पत्तिसमाना भविष्यति । इदमेवेष्टम् ॥