पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अस्योपपत्तिः । अबबजवर्गयोगो द्विगुणअबबजघातअजबर्गयोगसमानोऽस्ति । तस्मात् अबबजवर्गयोगः त्रिगुणितेन अजवर्गेण तुल्यो भविष्यति । इदमेवेष्टम् ॥ अथ नवमं क्षेत्रम् ॥ ९॥ या रेखाइसंज्ञा भवति तस्यास्तथा द्वे खण्डे कार्ये यथा संर्षमहत्खण्डयोर्निष्पत्तिर्महत्खण्डलघुखण्डयोर्निष्पत्ति- तुल्या भवति । तत्र प्रत्येकं खण्डमन्तररेखा भविष्यति । यथा अबरेखा कल्पितमहत्खण्डं च अजं कल्पितम् । पुनर् 'अदरेखा अबार्द्धतुल्या योज्या | तस्मात् दजवर्गः पञ्चगुणितदअ- वर्गतुल्यो भविष्यति । तस्मात् दअरेखा दजरेखा च मिथो भिन्ना भविष्यति । अनयोर्वर्गौ केवलमङ्कसंज्ञाह भविष्यतः । तस्मात् अजम् अन्तररेखा भविष्यति । पुनर्यदि अजवर्गतुल्यं अबरेखोपरि क्षेत्रं कार्य तदोत्पन्नद्वितीयभुजो जबरेखा भविष्यति । तस्मात् जबरे- खाप्यन्तररेखा भविष्यति । इदमेवास्मदिष्टम् ॥ अथ दशमं क्षेत्रम् ॥ १० ॥ समपञ्चास्त्रक्षेत्रमध्ये त्रयः कोणा यदि समाना भवन्ति तदा शेषा अपि कोणा: समाना भवन्ति यथा अबजदहपञ्चभुजं क्षेत्रं कल्पितम् । अजदकोणा: समानाः कल्पिता: | पुनर्बहबदरेखे संयोज्ये | बहअत्रिभुजे बजद त्रिभुजे अकोणजकोणयोः समानभावित्वेन अकोण जकोणसंबन्धिभुजानां साम्यभावित्वेन तकोणककोणौ समानौ भविष्यतः । एवं बहबद- भुजावपि समानौ भविष्यतः | बहदकोणबदहकोणावपि समानौ भविष्यतः । तस्मात् संपूर्णो हकोण: संपूर्णदकोणतुल्यो भविष्यति । १ सर्वरेखामहत्व V. २ कियते K, A,