१८७
यथा अबरेखाया जचिह्ने तथाविधे खण्डे कृते । अस्याम् अजं महत्खण्डं कल्पितम् । पुनर्महत्खण्डतुल्या अदरेखा योजिता । तदोत्पन्नबरेखाया अचिह्ने तादृशे खण्डे भविष्यतः ।
अस्योपपत्तिः ।
अबस्य निष्पत्तिः अजतुल्यअदरेखया तथास्ति यथा अजनिष्पत्तिर्जबेनास्ति । तस्मात् दअअबयोर्निष्पत्तिर्बजजअनिष्पत्तितुल्या भविष्यति । तस्मात् द[१]बब अनिष्पत्तिर्बअअजतुल्य अदनिष्पत्तिसमाना भविष्यति । इदमेवास्मदिष्टम्।
पुनरपि न्यूनखण्डतुल्यं महत्खण्डात्पृथक्कार्यम्। तदा महत्खण्डं तस्यामेव निष्पत्तौ वि[२]भागं प्राप्स्यति। न्यूनखण्डं च महत्खण्डं भविष्यति । यथा दबरेखाया अचिह्ने तस्यामेव निष्पत्तौ उभे खण्डे कल्पिते । महत्खण्डम् अबं कल्पितम् । पुनर्दअरेखातुल्या अजरेखा अबरेखायाः पृथक् कृता । तस्मात् अबरेखाया जचिह्नोपरि तस्यां निष्पत्तौ द्वे खण्डे भविष्यतः | अजरेखा च महत्खण्डं भविष्यति ।
अस्योपपत्तिः ।
दबअब निष्पत्तिर्बअअदतुल्यअजनि[३]ष्पत्तिः । तस्मात् दअतुल्यअजस्य अबेन निष्पत्तिर्जबजअनिष्पत्तेः समाना भविष्यति । तस्मात् अबअजयोर्निष्पत्तिः अजजबनिष्पत्तितुल्या भविष्यति। इदमेवेष्टम् ॥
अथाष्टमं क्षेत्रम् ॥ ८ ॥
[४]यदा रेखायाः स्वमहत्खण्डेन निष्पत्तिर्महत्खण्डलघुखण्डनिष्पत्तितुल्या भवति तदा सर्वरेखाया वर्गो लघुखण्डवर्गयुतः सन् त्रिगुणमहत्खण्डवर्गतुल्यो भविष्यति ।
यथा अबरेखा कल्पिता। जबन्यूनखण्डं तस्यां निष्पत्तौ कल्पितम् । तदा अबवर्गबजवर्गयोगस्त्रिगुणितअजवर्गेण तुल्यो भविष्यति ।