सामग्री पर जाएँ

पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२०१

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

१८५

लसक्षेत्रम् अजवर्गतुल्यं जझक्षेत्रसमानं भविष्यति । इदं अबबजघातोऽस्ति । ततोऽस्मदिष्टं समीचीनम् ॥

अथ चतुर्थं क्षेत्रम् ॥ ४ ॥

 यदि जदवर्गात् दअवर्गः शोध्यते तदा शेषं दअअजघातस्य द्विगुणेन अबअजघाततुल्येन अजवर्गयुक्तेन तु[]ल्यमवशिष्यते । इदं चतुर्गुणितदअवर्गेण समानं भविष्यति । अबवर्गतुल्यं भविष्यति । पुनर् अबअजघातो द्वयोः शोध्यते तदा शेषः अजवर्गः अबबजघाततुल्यो भविष्यति । ततोऽस्मदिष्टं समीचीनं भविष्यति । क्षेत्रं पूर्वोक्तवत् ज्ञेयम् ॥

अथ पञ्चमं क्षेत्रम् ॥ ५ ॥

 यस्या रेखाया निष्पत्तिर्महत्खण्डेन महत्खण्डलघुखण्डनिष्पत्त्या तुल्या भवति । पु[]नर्महत्खण्डस्यार्द्धं लघुखण्डयुक्तं कार्यम् । तदा योगवर्गः प[]ञ्चगुणितेन महत्खण्डार्द्धवर्गेण समो भविष्यति ।
 यथा अबरेखा कल्पिता । तस्या महत्खण्डम् अजं कल्पितम् । महत्खण्डस्यार्द्धं दजं कल्पितम् । तस्मात् दबवर्गः पञ्चगुणितजदवर्गसमो भविष्यति ।

अस्योपपत्तिः ।

 अबरेखोपरि अहं समकोणसमचतुर्भुजं कार्यम्। बझकर्णः सं-


  1. १ तुल्यं चतुर्गुणित &c. D., V.
  2. २ पुनस्तत्रैव महत्खण्डस्यार्धं चेद्योज्यते K.,A.
  3. ३ पञ्चगुणितमहत्खण्डार्धवर्गसमो भवति K.,A. भा० २४