१८४
अथ द्वि[१]तीयं क्षेत्रम् ॥ २ ॥
पूर्वप्रकारेण अवबजघातः अजवर्गतुल्योऽस्ति । पुनर् अबअजघात उभयोर्युक्तः कार्यः । तदा अबवर्गतुल्यः अदवर्गश्चतुर्गुणः अबअजघाततुल्यद्विगुणअदअजघातअजवर्गयोगस्य तुल्यो भविष्यति । पुनर् अदवर्ग उभयोर्युक्तः कार्यः। तदा पञ्चगुणितअदवर्गतुल्यो जदवर्गो भविष्यति । इदमेवेष्टम्॥
अथ तृतीयं क्षेत्रम् ॥ ३ ॥
यस्या रेखाया न्यूनाधिके खण्डे क्रियेते तस्या रेखाया वर्ग: पञ्चगुणितैकखण्डवर्गसमो भवति । द्वितीये खण्डे एका रेखा तथा योज्या यथा द्वि[२]गुणप्रथमखण्डतुल्या भवति । तदा द्वितीयखण्डयोज्यरेखायाश्च निष्पत्तिर्द्वितीखण्डेन तथास्ति यथा द्वितीयखण्डस्य निष्पत्तिर्योगरेखयास्ति।
यथा दजरेखा कल्पिता । अस्या वर्गो
दअखण्डस्य पञ्चगुणितवर्गतुल्यः कल्पितः ।
जबं योगरेखा कल्पिता । तदा अबरेखा
जचिह्नोपरि पू[३]र्वोक्तनिष्पत्तेर्भागद्वयं प्राप्स्यति ।
महत्खण्डम् अजं भविष्यति ।
अत्रोपपत्तिः ।
क्षेत्रं पूर्ववत् पूर्णं कार्यम् । अखक्षेत्रं जहक्षेत्राच्छोध्यम् । तदा शेषं खगरक्षेत्रं चतुर्गुणअदवर्गतुल्यं भविष्यति । अबवर्गतुल्यं भविष्यति । अकक्षेत्रं मजक्षेत्राद्द्विगुणमस्ति । मजमहयोगतुल्यमप्यस्ति। शेषं