१८२
भविष्यतीति कल्पितम् । तदा हवान्न्यूनो अगोलः कल्पितः । पुनर्हवगोलकेन्द्रे अगोलतुल्यः कमगोलः कल्पितः । पुनर्हवक्षेत्रमध्ये बह्वस्त्रयुक्तं घनक्षेत्रं तथा कार्यं यथा कमगोले स्पर्शं न करोति । पुनर् अजगोलमध्ये एकं क्षेत्रं तद्घनक्षेत्रसजातीयं कल्पितम् । तस्मात् बदझतनिष्पत्तिघनतुल्या अजगोलस्य घनक्षेत्रस्य हवगोलस्य घनक्षेत्रनिष्पत्तिरस्ति । बदझतनिष्पत्तिघनतुल्या अ[१]जगोलअगोलयोर्निष्पत्तिः कल्पितासीत् । तथा अजकमगोलयोर्निष्पत्तितुल्याप्यस्ति । तस्मात् अजगोलघनक्षेत्रहवगोलघनक्षेत्रयोर्निष्पत्तिः अजकमगोलयोर्निष्पत्तितुल्या भविष्यति । अजघनक्षेत्रस्य निष्पत्तिः अजगोलेन तथा भविष्यति यथा हवगोलघनक्षेत्रस्य निष्पत्तिः कमगोलघनक्षेत्रेणास्ति । कमगोलो हवगोलघनक्षेत्रान्न्यूनोऽस्ति । तस्मात् अजगोलः अजगोलघनक्षेत्रान्न्यूनो भविष्यति । इदमशुद्धम् ॥
पुनर्बदझतनिष्पत्तिघनतुल्या अजगोलहवगोलाधिकयोर्निष्पत्तिः कल्पिता । तस्मात् झतबदनिष्पत्तिघनतुल्या हवगोलस्य अजगोलान्न्यूनगोलेन निष्पत्तिर्भविष्यति । इदमप्यशुद्धं कुर्मः । तस्मादस्मदिष्टं समीचीनम् ।
|
श्रीमद्राजाधिराजप्रभुवरजयसिंहस्य तुष्ट्यै द्विजेन्द्रः |
॥ इति द्वादशोऽध्यायः ॥ १२ ॥
- ↑ १ अजगोलतुल्यकमगोलयोर्निष्पत्ति: K., V.