पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धरातले लम्बौ भविष्यतः । एतौ च समानान्तरौ भविष्यतः समानौ च भविष्यत । कुतः । मरलखचापयोः साम्यात् । एतौ रतखलौ रेमख- लद्विगुणचापयोः पूर्णजीवयोरैर्द्धरूपौ जातौ । पुनरेतौ रतख सौ मतलसरेखे समाने पृथक् करिष्यतः । पुनस्तसरेखा संयोज्या । इयं तसरेखा मलरेखायाः समानान्तरा भविष्यति । कुतः । कततमयो- निष्पत्तिः कससलयोनिष्पत्तिसमानास्ति । तसं मलात् न्यूनं भवि- ष्यति । कुतः । एतौ कतकमयोर्निष्पत्तौ स्तः | रखरेखा तसरेखा च मिथः समानान्तरे भविष्यतः समाने च भविष्यतः । कुतः । रतरेखा. खसरेखा च मिथः समाना समानान्तरा च भवति । तस्मात् रखलम- रेखे मिथ: समानान्तरे भविष्यतः | रखं लमान्यूनं भविष्यति । तस्मात् रमलख चतुर्भुजं एकस्मिन् धरातले भविष्यति । इदं चतुर्भुजं तस्य घनक्षेत्रस्यैकं फलकं भविष्यति । अनेन लँघुवृत्तस गोलस्प स्पर्शो न कृतः । कुतः । अस्य रममललखैः समैत्रिभुजैः स्पर्शो न कृतः । पुनश्चतुर्थभुजो रखम् एभ्यो न्यूनोऽस्ति । एवं निश्चीयते रश- फखचतुर्भुजमध्येकघरातले भविष्यति । लघुगोलस्पर्श न करिष्यति गशफत्रिभुजमपि लघुगोलस्पर्शे न करिष्यति । अनेनैव प्रकारेण सर्वचापेषु खण्डेषु चैतद्रूपाण्यत्राणि कार्याणि | तदारमा कनिष्टघनक्षेत्रं पूर्ण भविष्यति । एतन्द्रनक्षेत्र सजातीय मन्य- स्मिन् गोले यदि कार्यं भवेत्तदोभे घनक्षेत्रे शत्रूनां योगेनोत्पद्येते । कीदृशानां शत्रूनाम् । येषां भूमिर्घनक्षेत्राणां फलकानि पतिष्यन्ति । शत्रूनां मुखं च गोलयोः केन्द्रं भविष्यति । यावन्तः शङ्कव एकस्मिन् गोले भवन्ति तावन्त एव द्वितीयगोले भवन्ति मिथश्व सजातीयानि भविष्यन्ति । कुतः । वेष्टितघरातलानां सजातीयत्वात् । तस्मादेक- गोलस्यैकश कोर्निष्पत्तिद्वितीयगोलस्य संजातीयशङ्कुना तथास्ति यथैषां १ द्विगुणरमखलचापयो: V. २ अर्घौ जाती K., A. ३ लघुवृत्तगोलस्य V. ४ एतद्रूपफलकानि A. ५ भविष्यन्ति V. ६ खसजातीय V.