१७९
तथा कर्त्तुमिच्छास्ति यथा कल्पितानि धरातलानि लघुगोलं न स्पृशन्ति । पुनर्यद्यन्यगोले एतत्सजातीयघनक्षेत्रमन्यत् कु[१]र्मस्तदानयोर्घन क्षेत्रयोर्निष्पत्तिर्द्वयोर्गोलयोर्व्यासनिष्पत्तेर्घनतुल्या भविष्यति ।
ययोर्गोलयोरेकं केन्द्रमस्ति तयोः केन्द्रगतमेकं घरातलं कल्पितं तद्धरातलबृहद्वृत्तसंपातादबजदवृत्त[२]मुत्पन्नं कार्यम् । लघुवृत्तसंपातात् हझवतवृत्तं कार्यम् । द्वयोः केन्द्रं कचिह्नं कल्पितम् । पुनर् अजव्यासबदव्यासौ लम्बरूपौ कृतसंपातौ कल्पितौ । पुनर् अबजददृवृत्तमध्ये
समानबहुभुजं क्षेत्रं तथा कार्यं यथा हझवतलघुवृत्तं न स्पृशति । तथा बमं मलं लअं भुजाः कल्पिताः । पुनर्म करेखा संयोज्या । सचिह्नपर्यन्तं वर्द्धिता कार्या । लकरेखा च योज्या नचिह्नपर्यन्तं वर्द्धिता ।
कचिह्नादेको लम्बः अबजदवृत्तधरातले तथा पात्यो यथा [३]बृहद्गोलं स्पृशति । स लम्बः कगं कल्पितः । पुनरेकं धरातलं लचिह्ननचिह्नगचिह्नगतं कल्पितम् |
पुनरन्यद्धरातलं मगसचिह्नगतं कल्पितम् ।
प्रथमधरातलबृहद्गोलयोः संपातात् लगनम् अर्ध्दवृत्तमुत्पन्नं कल्पितम् । द्वितीयधरातलमहद्गोलसंपातात् मगसम् अर्द्ध वृत्तमुत्पन्नं कल्पितम् । पुनर्लगचापं मगचापं प्रत्येकं वृत्तस्य चतुर्थांशो भविष्यति । लगचापस्य लखखफफगखण्डानि कार्याणि । मगचापस्य मररशशगखण्डानि कार्याणि । एतानि समानानि कार्याणि । अबचापस्य [४]यावन्ति खण्डानि तेषां समानानीत्यर्थः । पुनर् रखरेखाशफरेखा च संयोज्या। पुनर् रचिह्नात् मससंपातरेखायां रतलम्बो नेयः । खचिह्नात् लनसंपातरेखायां खसलम्बो नेयः[५]। एतौ लम्बौ अवजद-