पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७९ तथा कर्तुमिच्छास्ति यथा कल्पितानि धरातलानि लघुगोलं न स्पृशन्ति । पुनर्यद्यन्यगोले एतत्सजातीय घनक्षेत्रमन्यत् कुर्मस्तदानयोर्घनक्षेत्रयोर्निष्पत्तिर्द्वयोर्गोलयोर्व्यासनिष्पत्तेर्धन- तुल्या भविष्यति । ययोगलयोरेकं केन्द्रमस्ति तयोः केन्द्रगतमेकं धरातलं कल्पितं तद्धरातलबृहद्वृत्तसंपातादबजदवृत्तमुत्पन्नं कार्यम् । लघुवृत्तसंपातात् हझवतवृत्तं कार्यम् । द्वयोः केन्द्रं कचिह्नं कल्पितम् । पुनर् अजव्यास- बदव्यासौ लम्बरूपौ कृतसंपातौ कल्पिती | पुनर् अबजदद्वृत्तमध्ये समानबहुभुजं क्षेत्र तथा कार्य यथा हझवतलघुवृत्तं न स्पृशति । तथा बमं मलं लअं भुजाः कल्पिताः । पुनर्भकरेखा ज्या | सचिह्न - A 1 पर्यन्तं वद्धिता कार्या | लकरेखा च योज्या नचिह्नपर्यन्तं वर्द्धिता | कचिह्नादेको लम्बः अबजदवृत्तघरातले तथा पात्यो यथा वृहंगोलं स्वशति । स लम्बः कगं कल्पितः । पुनरेक घरातलं लचिह्ननचिह्नगचिह्नगतं कल्पितम् | पुनरन्यद्धरातलं मगसचिहगतं कल्पितम् | प्रथमधरातलबृहद्गोल्योः संपातात् लगनम् अ- र्द्धवृत्तमुत्पनं कल्पितम् । द्वितीयधरातलमहगो- लसंपातात् मगसम् अर्द्धवृत्तमुत्पन्नं कल्पितम् | पुनर्लंगचापं मगचाप प्रत्येकं वृत्तस्य चतुर्थी - शो भविष्यति । लगचापस्य लखखफफगखण्डानि कार्याणि । मगचापस्य मररशशगखण्डानि कार्याणि । एतानि समानानि कार्याणि । अबचापस्य यावन्ति खण्डानि तेषां समानानीत्यर्थः । पुनर् रखरेखाश- फरेखा च संयोज्या | पुनर् रचिह्नात् मससंपातरेखायां रतलम्बो नेयः । खचिह्नात् लनसंपातरेखायां खसलम्बो नेयः । एतौ लम्बौ अवजद- - ● क्रियते for कुर्म: K.., A. २ कल्पितम् for उत्पन्नं कार्यम् K., A.. ३ बृहद्गोलाद्वहिर्न गच्छति K, A. ४ खण्डसमानीत्यर्थ: K. A. ५ कार्य: K. A,