पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हृदचापं झदचापान्यूनं भवति | इझरेखा झतरेखायाः समानान्तरा कार्या । इयं वलवृत्ते संपातं न करिष्यति । पुनर्हदपूर्णज्या संयोज्या | पुनर्हदचापतुल्यानि वृत्तचापानि कार्याण्येतेषां पूर्णजीवाः च सं- योज्याः | इष्टमस्माकं भविष्यति ॥ प्रकारान्तरम् । केन्द्रोपरि अमबसमकोणः कार्यः । पुनर् अमोपरि अजमं वृत्तार्द्ध कार्यम् । पुनर् अलरेखोपरि दचिह्नं कॅल्पितम् । पुनर्मकेन्द्रे सदव्या- सार्द्धेन दजतवृत्तं कार्यम् | पुनर् अमबकोणस्यार्द्ध पुनः पुनस्ताव- कार्य यावदर्द्धरेखा दजचापे कचिह्ने लगति । सा मकरेखा कल्पिता | इयं रेखा हचिह्नपर्यन्तं वर्द्धिता कार्या | पुनर् अहरेखा योज्या | इयं झचिह्नपर्यन्तं वद्धिता कार्या । तदास्मात् अझरेखा बलवृत्तं न लगिष्यति । कुतः | महस्य मकादधिकत्वात् । सदादप्यधिक- त्वात् । मदं मलादधिकमस्ति । अझचापतुल्यानि वृत्तखण्डानि भवि- व्यन्ति । यद्येषां पूर्णजीवा योज्यते तदास्माकमिष्टं सेत्स्यति ।। अथ चतुर्दशं क्षेत्रम् ॥ १४ ॥ एक केन्द्रकथोर्गोठयोर्मध्ये एक बहुधरातलयुक्तं घनक्षेत्रं १ 'जीवा च संयोज्या V. २ कल्पयेत् K इयं रेखा झचिह्नपर्यन्तं वर्धिता कार्यो K, A.. ५ K., A. insert बृहद्गोलान्तः, A. ३ अहरेखा संयोज्या | ४ भविष्यति K., A,