पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७३ भवतस्तदा तयोर्भूम्योर्निष्पत्तिलम्बनिष्पत्तेर्विलोमा ति | ऐतद्रपा निष्पत्तिर्भविष्यति तदा समानौ भवतः । भविष्य- यथैकक्षेत्रस्य भूमिः अबजदवृत्तं कल्पिता । कलं लम्बश्च क ल्पितः । यद्वितीयक्षेत्रभूमी हझवतं कल्पिता । मनं लम्बश्च क ल्पितः । यदि द्वौ लम्बौ समानौ भवतो यदा भूमी समाने भविष्यतः । तदास्मदिष्टमुत्पन्नं भविष्यति । यदि समानौ न भवतस्तदा मनलम्बः कललम्बादधिकः कल्पितः । पुनर्मनलम्बात् कनतुल्यं मसं पृथक्कार्यम् । तदा हवभूमौ मैसलम्बतुल्यशङ्कुरुत्पाद्यः । प्रथमम् हझवतनशङ्क समानौ कल्पितौ । तदानयोः शङ्कोर्निष्पत्तिर्हझवत, सशङ्कुना एकरूपा भविष्यति । पुनरेकशङ्कोर्निष्पत्तिर्हझवतसशङ्कुना तथास्ति यथा भूमेनिष्पत्तिर्भूम्यास्ति द्वितीयशङ्कोर्निष्पत्तिर्मनलम्ब- मसलम्बनिष्पत्तितुल्यारित । तस्मात् अबजदभूमिहझवतभूम्योर्नि- ष्पत्तिर्मनमसनिष्पत्त्या समाना भविष्यति । मनकलनिष्पत्तेरपि स माना भविष्यति । अबजदलशङ्क- ज त this क "झ झ C व पुननिष्पत्तय एतद्रूपाः कल्प्या: । तदा अबजदलशङ्कुहझवतनशु- कोर्निष्पत्तिर्हझवतसशङ्कुना एकरूपा भविष्यति । तस्मादेतौ समानौ भविष्यतः । एवं समतलमस्तक परिषिक्षेत्रद्वयमपि । इदमेवासदिष्टम् || १ ईडशी निष्पत्तिश्चेत् उमानौ भविष्यतः K, A. २ क्षेत्रस्य V. ३ मल- लम्बेच K, A, ४ कल्पिता: K., A.