ष्पत्तेर्घनतुल्यापि भविष्यति । तस्मात् बदझतनिष्पत्तिघनतुल्या अबजदलशङ्क्वन्तःपातिसास्रोत्पन्न[१]शङ्कुहझवतनशङ्क्वन्तः[२] पातिसास्नोत्पन्नशङ्कोर्निष्पत्तितुल्या भविष्यति । अबजदलशङ्क्वन्तःपातीयसास्नशङ्कोर्निष्पत्तिः अबजदलशङ्कना तथा भविष्यति यथा हझवतनान्तशङ्कोः कल्पितन्यूनघनक्षेत्रेणास्ति । अयं हझवतनान्तः पातिसास्नशङ्कुः कल्पितन्यून घनक्षेत्राधिकोऽस्ति । तस्मात् अबजदलान्तःपातिसास्रशङ्कुः[३] अबजदलशङ्कोरधिको भविष्यति । इदमशुद्धम् ।
पुनर्बदझतनिष्पत्तिर्घनतुल्या प्रथमशङ्कुद्वितीयशङ्क्वधिकघनक्षेत्रनिष्पत्तिः कल्पिता । तदा झतवदनिष्पत्तिघनतुल्या हझवतनशङ्कुअबजदलशङ्कुन्यूनक्षेत्रयोर्निष्पत्तिर्भविष्यति । पूर्वरीत्या एनमप्यशुद्धं[४] कुर्मः । तदेष्टमस्मत् सेत्स्यति । पुनः समतलमस्तक परिधिक्षेत्रेष्वपि सेत्स्यति[५] ॥
अथैकादशं क्षेत्रम् ॥ ११ ॥
समतलमस्तकपरिधिक्षेत्रयोः समानलम्बयोर्निष्पत्तिस्तयोर्भूमिनिष्पत्तितुल्या भविष्यति । एवं द्वयोः शङ्क्वोरपि निजभूमिनिष्पत्तिसमाना भविष्यति ।