पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ रपवर्तनाङ्कः कल्पितः । हझेनापव- अक..त... जव द चितं जदं निःशेषं भविष्यति । जदं बतमपि निःशेषं करिष्यति । इदमेव हृझं अवमपि निःशेषं करोति । तस्मात् तअं निःशेषं करिष्यति । मिलितराश्योरपवर्चाङ्कः तअं दवं निःशेषं करोति । तस्मात् हझं दवं निःशेषं करिष्यति । पूर्वे हझं जदं निःशेषं चकार । तस्मात् जवमपि निःशेषं करिष्यति । जवं च तर्क निःशेषं करिष्यति । तस्मात् हझं तकमपि निःशेषं करिष्यति । तअं निःशेषं पूर्व कृतवान् । तस्मात् कअं रूपं निःशेषं करिष्यति । इदमशुद्धम् । यतो रूपं निःशेषं को- ऽप्यको न करोति । इदमेवास्माकमिष्टम् || ह्झ- .... अथ द्वितीयं क्षेत्रम् ॥ २ ॥ तत्र मिलितराश्योरपवर्त्ताको महदक: कल्प्योsस्ति येन भक्तौ मिलितराशी निःशेषौ भवतः | यथा अवजदौ मिलितराशी कल्पितौ । तत्र यदि जदं न्यूनराशिः अब महद्राशि निःशेषं करोति तदा- अब ज.... द अ... हृद ज.. झ.... द ब ... त यमेव महदकोऽस्ति । यदि जदं अबे निःशेषं न करोति किं च बहं निःशेषं करोति अहं शेषं जदान्यूनमवशि- ष्टम् | तज्जदं निःशेषं न करोति किं तु दझं निःशेषं करोति । जझं शेषं अहान्यूनमवशिष्टं च भवति । एवं तावन्निःशेषक्रिया कार्या यावद्रूपातिरिक्तान्याङ्केन निःशेषता भवेत् । जझेन अहं निःशेषं कृत- मिति कल्पितम् । तदा इदमेव जझं महदको जातः । अनेनोभौ निःशेषौ जाती । अस्योपपत्तिः । जझं अहं निःशेषं करोति । अहं च दझं निःशेषं करोति । त- स्मात् जझं दझमपि निःशेषं करिष्यति । जदमपि निःशेषं करिष्यति ।